SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६४ व्युत्पत्तिवादः - [ कारके नुकूलकृतिमात्रम् । एकक्रियाविषयककृतितो यत्र नान्तरीयकक्रियान्तरनिर्वाहस्तस्कृतिमतस्तक्रियाकर्तृत्वाभावात् । अत एव मत्तो भूतं, न तु मया कृतमिति व्यपदेश इति । तक्रियानुकूलत्वे सति तद्विषयककृतिस्तत्कर्तृत्वम् । अन्योद्देशेन नाराचक्षेपाद्यत्र ब्राह्मणवधस्तत्र मरणानुकूलस्य नाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेऽपि ब्राह्मणमरणानुकूलव्यापारत्वेन तस्यानभिसंहितत्वात्तेन रूपेण कृतिविषयत्वं न तादृशव्यापारस्येति ब्राह्मणवधत्वविशिष्टकर्तृत्वं न तादृशव्यापारकर्तुरिति न तस्य संपूर्णप्रायश्चित्तम् । अत एव संपूर्णप्रायश्चित्तप्रयोजकस्य कर्तृव्यापारस्य लक्ष्यताभिप्रायेण हिंसालक्षणे मणिकृतां मरणोद्देशनानुष्ठीयमानत्वादृष्टाद्वारकत्वविशेषणयोरुपादानमिति मिाभिधानसङ्गतिः । मरणोद्देशेनानुष्ठीयमानस्य व्यापारस्यावश्यं मरणानुकूलव्यापारत्वेन प्रतिसंहितत्वात्तादृशरूपेण कृतिविषयत्वमिति तादृशविशेषणस्य विशिष्टकर्ततानिर्वाहकत्वात्तद्विशेषणवतो व्यापारस्य नियमेन लक्ष्यत्वात् । तच्छून्यस्य चालक्ष्यत्वनियमात् । अथ मरणोद्देशेनानुष्ठितस्यापि यत्र खड्गाभिघातत्वादिनैवेष्टसाधनत्वकृतिसाध्यत्वधीविषयता न तु मरणानुकूलत्वविशेषिततद्रूपेण तत्र न मरणानुकूलत्वविशिष्टविषयिणी कृतिरिति तादृशव्यापारकर्तुर्न वधत्वविशिष्टकर्तृत्वमिति कथमुक्तविशेषणस्य विशिष्टकर्तृतानिर्वाहकत्वम् । यदि च मरणोद्देशेनानुष्ठीयमानत्वस्य मरणानुकूलत्वेन कृतिविषयत्वमेवार्थ इत्युपेयते तदा व्यापारे तादृशविशेषणस्य तत्कर्तरि विशिष्टकर्तृतानिर्वाहकत्वेऽप्युक्तस्थले खड्गाभिघातादौ तादृशलक्षणाव्याप्तिारैव। तत्र ' संपूर्णप्रायश्चित्तस्य निर्विवादतया लक्ष्यताया आवश्यकत्वात् । न च विशेषणीभूतफलनिष्ठोद्देश्यताख्यविषयतानिरूपकत्वे सति व्यापारनिष्ठसाध्यताख्यविषयतानिरूपकत्वमेव विशिष्टविषयकत्वं कृतेरित्युपदर्शितस्थलेऽनुपलतासंबन्धेन मरणवैशिष्टयस्य साध्यतारूपविषय
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy