________________
२०२ व्युत्पत्तिवादः
[ कारके व्यापाररूपधात्वर्थविशेष्यतया आश्रयत्वविशेषणतया चान्वेति । तदेकदेशे संयोग एव प्रामादिवृत्तित्वान्वयः। चैत्रीयकृतिजन्यव्यापारजन्यग्रामवृत्तिसंयोगानुकूलक्रियाश्रयवानजादिरित्याकारको बोधः। ज्ञानानुकूलशब्दश्च द्रव्यं निरूपयतीत्यादौ धातोरर्थः। तादृशविशिष्टकार्थस्य एकदेशे ज्ञानांशे आधेयत्वान्वयबोधे च न द्वितीयायाः साकाङ्क्षता स्वीक्रियते अपि तु विषयतया अन्वयबोध एवेति शिष्यं द्रव्यं निरूपयतीत्यादिर्न प्रयोगः ।
यत्तु धात्वर्थो ज्ञानमेव तदनुकूलव्यापारश्च णिजर्थ इति--तदसत् । धातोश्चुराद्यन्तर्गततया स्वार्थ एव णिचो विधानात् । अन्यथा निरूपयतीत्यस्य ज्ञापयतीत्यादिसमशीलतया शिष्यं ज्ञापयतीत्यादिवच्छिष्यं निरूपयतीति प्रयोगस्य दुर्वारत्वात् । अजां ग्रामं यापयति शिष्यं शास्त्रं ज्ञापयति ब्राह्मणमन्नं भोजयति यजमानं मन्त्रं पाठयति घटं जनयति नाशयतीत्यादौ णिच्प्रत्ययप्रकृतिभूतधात्वर्थकर्तृवाचकाजादिपदोत्तरद्वितीयायाः मुख्यभाक्तसाधारणं कर्तृत्वमेवार्थः। गतिबुद्धीत्यादिसूत्रेण कर्तुः कर्मसंज्ञाविधानात् । गतिज्ञानोत्पत्त्यादिनिरूपितं कर्तृत्वं चाश्रयत्वमेव गलाधःसंयोगानुकूलक्रियानुकूलव्यापाररूपभोजनं कण्ठताल्वाद्यभिघातरूपपाठनिरूपितं च तदनुकूलकृतिमत्त्वं नाशनिरूपितं च प्रतियोगित्वम् । तस्य च निरूपकतासम्बन्धेन धात्वर्थेऽन्वयः ।
नव्यमते च यत्राश्रयत्वं कर्तृत्वं तत्राधेयत्वं द्वितीयार्थः। यत्रानु
'नन्वजां ग्रामं यापयतीत्यादौ निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकाजादिवृत्तितादृशकर्तृत्वाभाववान् यो ग्रामनिष्ठसंयोगानुकूलो व्यापारस्तदनुकलव्यापारवान् देवदत्त इत्येवं क्रमेणैव बोधो वक्तव्यः । स च न सम्भवति निरूपकत्वस्य वृत्त्यनियामकतया तदवच्छि प्रतियोगिताकाभावस्य वक्तुमशक्यत्वादित्यरुचेराह-नव्यमते इति ।