________________
द्वितीया ] जयाऽलङ्कृतः
२०१ तथा च ग्रामवृत्तिसंयोगजनकाजादिवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयबोधः' । अजा ग्रामं नीयते उह्यते भारो ग्राम चैत्रेण इत्यादावुत्तरसंयोगावच्छिन्नक्रियारूपं फलं कर्माख्यातार्थस्तत्र च धात्वर्थस्य तादृशव्यापारस्य जन्यतासम्बन्धन तस्य चाश्रयतासम्बन्धन अजाभारादिरूपप्रधानकर्मण्यन्वयः। ग्रामादिवृत्तित्वान्वयस्तु संयोगे एव । एवं च चैत्रकृतिजन्यो यः संयोगावच्छिन्नक्रियानुकूलव्यापारस्तजन्यग्रामवृत्तिसंयोगानुकूलकर्मवानजादिरित्यन्वयबोधः। न च कारकविभक्त्यर्थस्य धात्वर्थ एवान्वयनियमात्प्रत्ययोपस्थाप्यसंयोगे कथं ग्रामादिवृत्तित्वान्वय इति वाच्यम्। भूतले घट इत्यादौ घटादिपदार्थेप्यधिकरणसप्तम्यर्थान्वयात्तादृशनियमासिद्धेः। अस्तु वा धात्वर्थतावच्छेदकतावच्छेदकतया भासमाने संयोग एव तदन्वयः। फलव्यापारयोः पृथक्शक्तिमते चाश्रयत्वमेवात्मनेपदार्थः। संयोगावच्छिन्नक्रियारूपधात्वर्थ एव
१ 'वृक्षं पुष्पं चिनोतीत्यादौ विभागानुकूलहरणं चिनोतेरर्थः। हरणञ्चोद्देश्यीभूतपात्रसंयोगानुकूलक्रियानुकूलव्यापारः । विभागानुकूलत्वं क्रियाविशेषणं परम्परया धात्वर्थतावच्छेदकविभागस्याश्रयतया वृक्षादौ गौणकर्मता । अतः पुष्पाणि वृक्षश्चीयत इत्यादौ वृक्षादिपदस्य प्रथमान्तता साक्षाद्धात्वर्थतावच्छेदिकायाः पुरुषव्यापाराधीनाक्रियाया आश्रयतया पुष्पादेः प्रधानकर्मता! यत्रानुपयुक्तपत्रादीनां वृक्षादिभ्योऽपनयनमेवोद्देश्यं न तु तेषां पात्रसंयोगस्तत्र पत्राणि चिनोतीत्याद्यप्रयोगात् पात्रसंयोगे उद्देश्यत्वं विशेषणं यद्यपि शिष्यं धर्ममनुशास्तीत्यादौ ब्रुअर्थज्ञानानुकूलव्यापार एव शास्त्यर्थः तथाऽप्युपदेशरूपज्ञापनविशेष एव तदर्थ इति दुहादिगणे पृथगुपादानमुपदेशश्च कर्त्तव्यताज्ञापनमित्यादिकं स्वयमूहनीयम्'। इत्यस्मत्पितामहभ्रातृचरणहस्तलिखितपुस्तकधृतोऽत्राधिकः पाठः ।