SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०० व्युत्पत्तिवादः [ कारके बोधे गुरुवृत्तित्वस्य जिज्ञासायां धर्मविषयकत्वस्यान्वयः। शिष्यं धर्मं ब्रूते इत्यत्र ज्ञानानुकूलशब्दप्रयोगो धात्वर्थः। ज्ञाने धर्मविषयत्वस्य शिष्यवृत्तित्वस्याप्यन्वय इति तन्न चारुतरम् । तथा सति यत्र जिज्ञासाविषयकचैत्रज्ञानेच्छयाप्रश्नस्तादृशशब्दाञ्च सामग्रीबलेन मैत्रस्यापि पृच्छकजिज्ञासाज्ञानन्तत्र मैत्रं पृच्छतीति प्रयोगस्य, एवं यत्र चैत्रज्ञानेच्छया ब्रूते दैववशाच्च मैत्रस्यापि ज्ञानं तत्र मैत्रं ब्रूते इति प्रयोगस्य चापत्तेः । साक्षाद्धात्वर्थविशेषणज्ञानरूपफलाश्रयतया तत्र गुर्वादीनां प्रधानकर्मतया अप्रधाने दुहादीनामित्यनुशासनविरोधेन पृच्छते गुरुधर्म-“स पृष्टस्तेन कस्त्वं भोः” शिष्य उच्यते'धर्म'मित्यादिस्थले च लकारादिना तत्कर्मत्वाभिधानानुपपत्तेश्च । परं तु जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः पृच्छतेरर्थः । ज्ञाने गुरुवृत्तित्वस्यान्वयः। शब्दे च धर्मविषयकत्वस्यान्वयः। शब्दस्य च विषयता व्यापारानुबन्धिनी ज्ञानस्य परम्परया शब्दरूपधात्वर्थविशेषणत्वात् । तदाश्रयीभूतगुरोगौणकर्मता। धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता। 'ज्ञश्च ज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दोऽर्थः। ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः। अजां ग्राम नयतीत्यादौ ग्राम भार वहतीत्यादौ च उत्तरदेशसंयोगावच्छिन्नक्रियानुकूलव्यापाररूपं प्रापणं धातोरर्थः। तत्र क्रियारूपे फले अजाभारादिवृत्तित्वान्वयः। संयोगरूपफले च ग्रामादिवृत्तित्वस्यान्वयः । १ तथा च गुरुवृत्ति यज्जिज्ञासाज्ञानं तदुद्देश्यिका या कृतिस्तदधीनो यो धर्मविषयकः शब्दस्तत्प्रयोक्तेरिति बोधः। इत्यस्मत्पितृचरणहस्तलिखितपुस्तकधृतोऽत्राधिकः पाठः । तत्त्रेयादि अन्वयरित्यन्तस्य स्थाने 'उत्तरसंयोगे ग्रामस्य गौणकर्मणः क्रियायां चाजादिप्रधानकर्मणः इति हस्तलिखितपुस्तकपाठः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy