SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] जयाऽलङ्कृतः १६६ दानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् । अत्र च दानस्य तादृशप्रतिपत्ताविच्छारूपधात्वर्थे विशेषणत्वात्। चैत्रेण पौरवो गां याच्यते इत्यादावप्युक्तक्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रयः पौरव इत्यन्वयबोधो बोध्यः। यद्यपि निरुक्तयाच्याभिक्षा चेति दुहियाचिरुधिप्रच्छिभिक्षिचिबामित्यत्रार्थपरभिक्ष्युपादानेनैव चरितार्थतया' याचेरुपादानमनर्थकं तथापि याचमानः शिवं सुरानित्यादौ याचतेनं निरुक्तंभिक्षार्थकतेति तदुपादानम् । तत्र हि व्यापारजन्यत्वप्रकारिकेच्छाधात्वर्थः । इच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया अन्वयः। व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयार्थस्यान्वयः। तथा च सरवृत्तिव्यापारजन्यत्वप्रकारककल्याणेच्छाश्रय इत्यर्थः । गां व्रज रुणद्धीत्यादौ देशान्तरसञ्चारविरोधिव्यापारो धात्वर्थः। सञ्चारविरोधित्वं च सञ्चारानुत्पादप्रयोजकत्वम् । अनुत्पादे प्रधानकर्मणो वृत्तित्वान्वयः। देशविशेषणभेदे च व्रजमिति द्वितीयान्तार्थव्रजप्रतियोगिकत्वान्वयः । रुध्यते गां व्रज इत्यादावन्वयबोधः स्वयमूहनीयः । गुरुं धर्म पृच्छतीत्यादौ जिज्ञासाबोधकव्यापारो धात्वर्थः । 'दानाश्रय इति । विशिष्टशक्तिवादे चैत्रवृत्तिविशिष्टेच्छाविषयदानाश्रयः पौरव' इति बोधः। 'चरितार्थतया। सिद्धतयेत्यर्थः । व्रजप्रतियोगित्वान्वय इति । गोवृत्तिर्यो व्रजप्रतियोगिकभेदविशिष्टदेशाधिकरणकसंचारोत्पत्त्यभावस्तदनुकूलव्यापारवानिति बोधः । स्वयमूहनीय इति । अभावप्रतियोगिगोभूदुत्पत्तिमत्सञ्चाराधिकदेशविशेषणभेदप्रतियोगिकत्वं प्रत्ययार्थस्तदैकदेशेऽभावे धात्वर्थमुख्यविशेष्यव्यापारस्य जन्यत्वेनान्वयः । खण्डशक्तिवादे प्रदर्शितरीत्यैव बोधः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy