________________
१६८
व्युत्पत्तिवादः
[ कारके
त्यात्। व्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभ: । आश्रयत्वमेवाख्यातार्थः । एवं च क्षरणविभागयोर्न द्विधा भानम् । गौणकर्मासमभिव्याहृते दुह्यन्ते क्षीराणीत्यादौ आत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्नक्षरणाश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेऽपि एकदा उभयविधकर्मत्वबोधनस्याव्युत्पन्नत्वात्' दुह्यन्ते क्षीराणि गौरित्यादयो न प्रयोगाः ।
- पौरवं गां याचते विप्र इत्यादौ स्वोद्देश्यकदानेच्छा याचतेरर्थः । प्रधानकर्मगवाद्यन्वितद्वितीयार्थः विषयत्वे धात्वर्थतावच्छेदकदानेऽन्वेति । सविषयकदानादिरूपविषयोपहितेच्छाबोधकधातुस्थले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः सन्नन्तकर्मता । अथैवं यद्वस्तुविषयकं दानमप्रसिद्धं तद्वस्तुरूपकर्मसमभिव्याहृतधातुघटितवचसः का गतिरिति चेत् या गतिर्गगनं दिदृक्षते इत्यादिकस्य भ्रान्तपुरुषीयगमनादिप्रकारकदर्शनेच्छाबोधकवाक्यस्य गगनविषयक - त्वप्रकारक दर्शनेच्छाबोधस्तत्रेति चेदिहापि गोविषयिता प्रकारतानिरूपितस्वत्वेच्छानिष्टविषयताशालीच्छाबोधस्तद्वाक्यस्य वि शेषदर्शिमात्रविषयताऽपि समेति विवेचनीयं चेदमये । पौरवपदो - त्तरद्वितीयायास्तु वृत्तिरेवार्थः । तस्याश्च दानेऽन्वयः । पौरवस्य तादृशदानाश्रयत्वमेवाप्राधानकर्मत्वम् । न चैवमिच्छाविशेषरूपदानाश्रत्वं कर्तृत्वमेवेति वाच्यम् । धातुजन्यप्रतिपत्तिविशेष्यीभूत
I
'अव्युत्पन्नत्वादिति । सकृदुच्चरितः शब्दः सकृदेवार्थं गमतीतिनियमात् । गोविषयति । स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारिका पौरववृत्तीच्छा एतद्गोनिष्ठविषयतानिरूपिका भवत्वित्याकारिकैवेच्छा तत्र धात्वर्थं इति बोध्यम् ।