________________
२०३
द्वितीया ]
जयाऽलङ्कृतः कूलकृतिमत्त्वं तत्र कृतिजन्यत्वं यत्र प्रतियोगित्वं तत्रानुयोगित्वं तेषां चाश्रयतासंबन्धेनैव धात्वर्थेऽन्वयः । गत्यर्थादिभ्योऽन्यत्र च णिचप्रत्ययप्रकृतिधात्वर्थकर्तृवाचकपदात् न द्वितीया, तादृशकर्तुः कर्मतातिदेशाविषयत्वात् । तेन पाचयत्योदनं सहायेनेत्यादय एव प्रयोगाः न तु पाचयत्योदनं सहायमित्यादयः। ___के चित्तु पाकादिकर्तुः पाकादिकर्मत्वविरहेऽपि ण्यन्तसमुदायस्यापि धातुत्वेन तत्कर्मतया सहायादेः पाचयत्योदैनं सहायमित्यादयः प्रयोगा अपि साधवः । अत एवा जिग्रहत्तं जनको धनुस्त'दित्यादयो भट्टिप्रयोगाः । गतिबुद्धीत्यादिसूत्रं च नियमपरतया गत्यर्थधातुयोगे कर्तप्रत्ययासाधुत्वज्ञापकम् । तेन पाचयत्योदनं सहायेनेत्यादिवत् अजया ग्रामं यापयतीत्यादयो न प्रयोगा इत्याहुः ।
एषामयमाशयः। हेतुमति चेत्यनुशासनात् णिजों हेतुकर्तृत्वम्। तच्च स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा। कर्तृत्वं कचित्प्रयत्नः क्वचिदाश्रयत्वादिकं, यादृशधातूत्तराख्यातेन यादृशकतृत्वं बोध्यते तदुत्तरणिचप्रत्ययेन तादृशकर्तृत्वनिर्वाहकव्यापारो बोध्यते । अत एव पाचयतीत्यादौ पाकादिकृतिनिर्वाहकः, ज्ञापयतीत्यादौ ज्ञानाश्रयत्वनिर्वाहकः, नाशयतीत्यादौ नाशप्रतियोगित्वनिर्वाहको व्यापारः प्रतीयते । निर्वाहकत्वं च स्वरूपसंबन्धविशेषः । न तु जनकत्वम् । अतो न नाशयतीत्यादावुपपत्तिः । एवं च ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तत्वमेव निर्वाह्यस्यैव फलत्वात्। तदाश्रयतया स्वतन्त्रस्य कत्तुः कर्मता, तादृशफलविशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायमित्यादयः प्रयोगाः। यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विवक्षितं तदा पाचयत्योदनं सहायेनेत्यादयः। ___ अथ यत्र चैत्रमैत्रोभयकर्तक एक एव पाकस्तत्र चैत्रमानं प्रयोजयति यज्ञदत्तो मैत्रेणान्नं पाचयतीति प्रयोगापत्तिरिति । तत्रापि