________________
व्युत्पत्तिवादः
[ कारके भावस्तथापि अभेदान्वयस्थले नीलो घट इत्यादौ प्रतियोगिन एवानुयोगित्वेन दोषादिति चेत्-अत्रोच्यते । धर्मविशिष्ट: संसर्गः संसर्गमय दिया भासते । वैशिष्ट्यं स्वावच्छिन्नानुयोगितानिरूपकत्वस्वेतरधर्मावच्छिन्नप्रतियोगितानिरूपकत्वोभयसम्बन्धेन । एवशब्दस्थले च व्यवच्छेदत्व धर्मान्ययोगत्वधर्मावादाय समन्वयः । नन्वेवमपि पशुपदे लाग़लत्वम दाय लोमप्रतियोगिकसंसर्गेऽपि शक्तिभास्ये धर्मविशिष्टसंसर्गत्वरूपोद्देश्यतावच्छेदकस्य सत्त्वेऽप्याकाङ्क्षाभास्यत्वरूपविधेयस्याभावेनोद्देश्यतावच्छेद व्यापकत्वस्याकाङ्क्षाभास्यत्वरूपे भङ्गापत्तिः । राज्ञो राजा राजराज इत्यादौ वाक्ये समासे स्वस्वामिभावरूपसंसर्गस्य राजत्वे राजत्वभेदाभावेनाकाङ्क्षाभास्यत्वानापत्तिश्च । समवायेनाभावो नास्तीत्यादौ नञर्थाभावेऽभावपदार्थप्रतियोगिकस्य स्वनिष्ठप्रतियोगिताकत्वस्याभावत्वप्रतियोगिकर य स्वावच्छिन्नप्रतियोगिताकत्वस्य च संसर्गस्याकाङ्क्षाभास्यत्वानापत्तिरच प्रतियोगितावच्छेदकस्याभावत्वस्यानुयोगितावच्छेदकाभावत्वभिन्नत्वाभावादभावत्वनिष्टप्रतियोगितायाश्च निरवच्छिन्नत्वादिति चेत्-न । उपस्थितीयविशेष्यताविशिष्टः संसर्ग इत्यर्थेनादोषात् । वैशिष्टयञ्च स्वप्रयोज्य विशेष्यतानिरूपकत्वस्वनिरूपितत्वाभाववदुपस्थितीयविषयताप्रयोज्यप्रकार तानिरूपकत्वोभयसम्बन्धेन । पश्यादिस्थले च समवायसम्बन्धीयप्रकारताविशेष्यताप्रयोजकयोरुपस्थितीयघटत्वघटनिष्ठयोः प्रकारताविशेष्यतयोः लाग़लनिष्ठविशेष्यतालोमनिष्ठप्रकारताप्रयोजकयोरुपस्थितीयलाङ्गललोमनिष्ठविशेष्यतयोश्च निरूप्यनिरूपकभावात्। राज्ञो राजेत्यादौ समवायेनाभावो नास्तीत्यादावपि प्रतियोग्यनुयोगिवाचकविभिन्नराजपदजन्योप स्थतीयराजनिष्ठविषयतयोरभावनपदजन्योपस्थितीयाभावनिष्ठविषयतयोश्च शाब्दबोधीयप्रकारताविशेष्यताप्रयोजकयोरभिन्नतया निरूप्यनिरूपकाभावविरहात् । ना च अभावत्वप्रतियोगिकस्वावच्छिन्नप्रतियोगिताकत्वसंसम्स्यासंग्रह एव । अभावपदजन्योपस्थितीयाभावत्वनिष्ठविषयताया न दजन्योपस्थितीयाभावनिष्ठविषयतानिरूपिताभावत्वनिष्ठविषयताभेदे मानाभावेनाभावनिष्ठ