________________
व्युत्पत्तिवादः
[ कारके
प्रति
धस्यापि बाधकाभावादापत्त्या तत्पदजन्यतत्प्रक रकतद्विशेष्यकशाब्दबोधं तत्पदनिष्ठवृत्तिज्ञानाधीनतत्प्रकारकतद्विशेष्यकं । पस्थितिः कारणं वाच्यं, तथा च घटादिपदात् घटप्रकारकघटत्वविशेष्यको स्थितेरभावान्न तादृशशाब्दबोधापत्तिः । इत्थञ्च पदार्थद्वयसंसर्गनिष्ठश ब्दबोधीयविषयता किञ्चिन्निष्ठप्रकारतानिरूपित विशेष्यतानात्मकतया त दृशसंसर्गस्य वृत्तिज्ञानाधीनोपस्थित्यभावेऽपि व्यभिचाराप्रसक्त्या तत्र पदानां वृत्तिकल्पनमयुक्तमेवेति नैयायिकाः । परन्त्वेतेषां मते पदार्थद्वयसं सर्गभाननियामकाभावेन सर्वत्राबाधितसकलसंसर्गभानसम्भवेन नीलो घट इत्यादावभेदादेखि स्वस्वामिभावादेरपि भानापत्तिरिति शङ्कानिराशाय स्वमते नियामकमुच्यते| शाब्दबोधे चेत्यादिना । चशब्दस्त्वर्थे संसर्गपदानन्तरं स बोध्यः । एकपदार्थ इत्यत्रानुयोगिता सप्तम्यर्थः । तत्र वृत्तित्वसम्बन्धन प्रकृत्यर्थस्यान्वयः । तस्याश्च निरूपकत्वसम्बन्धेन संसर्गपदार्थेऽन्वयः । अपरपदार्थस्य वृत्तित्वसम्बन्धेन षष्ठ्यर्थप्रतियोगित्वे तस्य च निरूपकत्वसम्बन्धेन संसर्गपदार्थ - ऽन्वयः । शाब्दबोध इत्यत्र निरूपितत्वं सप्तम्यर्थः । तेनैव सम्बन्धेन शाब्दबोधस्य भासंधात्वर्थविषयतायामन्वयः । तस्यामेव निरूपितत्वसम्बन्धेन संसर्गमर्य्यादापदार्थाऽऽकाङ्क्षान्वयितृतीयार्थप्रयोज्यत्वस्य स्वरूपसम्बन्धेनान्वयः । तस्याश्चाख्यातार्थाश्रयत्वे निरूपितत्वेन तस्य च संसर्गपदार्थे स्वरू पेणान्वयः । तथा चैकपदार्थनिष्ठानुयोगितानिरूप कोऽपरपदार्थनिष्ठप्रतियोगितानिरूपकः संसर्गः शाब्दबोध निरूपिता आकाक्षानिरूपितप्रयोज्यत्व· विशिष्टा या विषयता तन्निरूपिताश्रयत्वविशिष्ट इति संसर्गमुख्यविशेष्यको बोधः :- शाब्दबोधे एकपदार्थानुयोगिकापरपदार्थ प्रायोगिक संसर्गभासिका समभिव्याहाररूपाऽऽकाक्षैव न तु प्रकारविशेष्ययोरिव शक्तिरिति पर्य्यव सितोऽर्थः । उद्देश्यतावच्छेदकव्यापकत्वं नियमेन विधेये भासते । तेनैकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वव्यापकत्वमाकाङ्क्षाप्रयोज्यशाब्दबोधीयविषयताश्रयत्वे लभ्यते । तेनाकाङ्क्षामन्तरा कुत्रापि शाब्दबोधें एकपदार्थेऽपरपदार्थस्य संसर्गो न भासते । पश्वादिपदजन्यशाब्दबोधे लागू