SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः ॥ अथ व्युत्पत्तिवादः शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया श्रीदुर्गामाधवगणेशाः पान्तु गदाधरं श्रीगिरिजां गणेशं प्रणम्य विश्वेश्वरपादपद्मम् । शिप्यप्रियश्रीजयदेवमित्रो व्युत्पत्तिवादस्य तनोति टीकाम् ॥ १ ॥ सन्त्यस्य टीका विविधास्तथाऽपि परिश्रमो निष्फलतां न यायात् । द्राक्षाफले सत्यपि वि रसज्ञैर्नास्विाद्यते हृद्यरसो रसालः ।। २ ।। I चटादिपदात् पादिविपयकशाब्दबोधवारणाय तत्पदजन्यतद्विषयकशाब्दबोधं प्रति तत्पदजन्यतद्विपयकोपस्थितिः कारणं वाच्यम् । घटपदात् पटोपस्थितेरभावान्न तद्विपयकशाब्दबोधः । घटपदादेः समवायसम्बन्धेन सम्वन्ध्याकाशविषयकं पस्थितिबलादाकाशविषयकशाब्दबोधवारणाय तत्पदजन्यशाब्दबोधे दनिष्ठवृत्तिज्ञानाधीनतद्विषयकोपस्थितिः कारणम् । ग्राक्राशोपस्थितेर्वृत्तिज्ञानजन्यत्वाभावान्न शाब्दबोधजनकत्वम् । नीलो घट इत्यादावभेदादेर्घटादिपदनिष्ठवृत्तिज्ञानाधीनोपस्थित्यभावेन शाब्दबोधस्य च सत्त्वेन व्यभिचार स्यादित्यभेदादावपि घटादिपदस्य शक्तिरुपेयतेऽन्वि नाभिधानवादिभिः । तथा चाभेदादेः पदार्थद्वयसंसर्गस्यापि वृत्तिज्ञानाधीनोपस्थितेस्सत्त्वान्न व्यभिचारः । परन्त्वेतादृशकार्य्यकारणभावेऽपि घटादिपदात् घटविशेप्यकघटत्वप्रकारकस्येव घटप्रकारघटत्वविशेष्यकशाब्दबो
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy