________________
चतुर्थी ] जयाऽलङ्कृतः
२७६ अथ चतुर्थीविवरणम् ब्राह्मणाय गां ददातीत्यादौ संप्रदानचतुर्थ्या ब्राह्मणादिसंप्रदानकत्वं दानादौ बोध्यते। संप्रदानत्वं च मुख्यभाक्तसाधारणक्रियाकर्मसंबन्धितया कत्रभिप्रेतत्वम्। क्रियाकर्मत्वं क्रियाजन्यफलशालित्वं तद्वतस्संबन्धस्तनिष्ठफलभागित्वमेव । तपन क्रियाजन्यफलभागितया कर्तुरिच्छाविषयत्वं पर्यवसन्नम् । कर्मणा यमभिप्रैतीत्यस्य कर्मणा यमभिसंबद्धुमिच्छतीति शाब्दिकैर्विवरणादुक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागितया दातुरिच्छाविषयो ब्राह्मण इति तस्य संप्रदानत्वम् । अब निरुक्तस्य संप्रदानत्वस्य कर्मत्वस्याविशेषः । कर्तुरीप्सितेति सूत्रेण कर्तुः क्रियया व्याप्नुमिष्टस्य कर्मसंज्ञाविधानात् । क्रियाया व्याप्तुमिष्टत्वमपि हि क्रियाजन्यफलभागितयेच्छाविषयत्वमेव । न च तथायुक्तमित्यनेन तद्भागितयाऽनभिप्रेतस्यापि तदाश्रयस्य तत्संज्ञाविधानात् । कर्मत्वं क्रियाजन्यफलशालित्वमेवन त्विच्छागर्भम्। संप्रदानत्वं त्विच्छागर्भमतो भेदः। कर्मत्वस्येच्छाऽघटितत्वे सूत्रे तद्वैयर्थ्यांपत्तेः । न च तदाश्रयत्वेनानभिप्रेतस्यापि कमत्वेन तत्साधारणक्रियाजन्यफलशालितयेष्टस्यापि ग्रामादेः कर्मतोपपत्ताविच्छाघटिततत्सूत्रवैयर्थ्यमेवेति वाच्यम् । इच्छाघटितस्य निरुक्तरूपस्य यत्र बाधस्तत्र ताशरूपमपि कर्मप्रत्ययेन प्रतिपाद्यत इत्येतत्प्रतिपादनाय सूत्रद्वयप्रणयनात् । अत एव यत्रौदनस्य गलाधःसंयोगेच्छया यो व्यापारस्ततो विषादेरपि तत्संयोगस्तत्र विषादौ क्रियाजन्यफलशालित्वाभावबाधेऽपि तेन रूपेणेच्छाविषयत्वाभावोऽबाधितस्तत्र विषमनेन न भुज्यत इति प्रयोगोपपत्तिः। इच्छाघटितकर्मत्वतात्पर्येण च देवाद्विषं भुज्यत इति प्रयोगस्य चोपपत्तिः।नच धात्वर्थतावच्छेदकफलशालित्वेनोद्देश्यत्वं कर्मत्वम् । तदनवच्छेदकफलशालित्वेनोहेश्यत्वं संप्रदानत्वमिति