________________
२७८
व्युत्पत्तिवादः
[ कारके न्तरान्वयिनि विशेषणम्। तत्प्रकारेण भासमाने धर्मान्तरान्वयबोधो विशिष्टवैशिष्ट्यबोध इत्युच्यते। न त्वसावन्वयिन्युपलक्षणम् । न वा ताशबोधस्तदुपलक्षितान्वयवोध इत्युच्यते । कचिद्विधेयान्तरसमानकालीनमपि विशेषणं तदन्वयितया तदन्वयिन्युपलक्षणमुच्यते । यथा रूपवान् रसवानित्यादौ रूपादिकं रसान्वयिनि । सास्तावान् गोपदवाच्य इत्यादौ सानादिकं गवादिपदवाच्ये । कचिद्धर्मिसंबद्धधर्मान्तरसंबन्धितानवच्छेदकतया धर्मान्तरसंबन्धिन्युपलक्षणमतो दण्डपुरुषावित्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षितपुरुषादिविषयको न तु विशिष्टविषयक इत्युच्यते । विशेष्यसंबन्धासंवन्ध्यपि तत्संबन्धितावच्छेदकतया तद्वति विशेषणम् । अत एव संज्ञाविशिष्टसंश्यादिज्ञाने संज्ञादेर्विषयत्वमनङ्गीकुर्वतां प्राभाकराणां प्राचीननैयायिकानां च मते तटस्थज्ञानविषयतयैव विषयतावच्छेदकत्वात्संज्ञादेः प्रकारस्य ज्ञानविषयविशेषणत्वम् । अत एव द्वित्वनाशकालीनायां द्वे द्रव्य इति बुद्धौ न द्वित्वविषयकत्वमपि तु द्वित्वविशिष्टविषयकत्वमेव, द्वित्वरूपविशेषणधीजन्यत्वादित्याचार्याः । एवमप्रतियोगित्वाविशेषेऽपि घटसामान्याभावादिप्रतियोगिनि घटत्वादिकं विशेषणं नीलादिकमुपलक्षणमित्युच्यते। कचिच्च विद्यमानमप्यतव्यावृत्तिन्यूनाधिकवृत्तितया तत्र न विशेषणमित्युच्यते किंतूपलक्षणम् यथा । विद्यमानापि जटा तापस उपलक्षणं, न तूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणमित्यलम् । ___क्वचिदविशेषणस्यापि संवन्धो मत्वर्थीयेन बोध्यते घटोऽयं विनाशीत्यादिप्रयोगदर्शनादिति दीधितिकृतः। तदसत्। आवश्यकार्थधातूत्तरणिनिप्रत्ययेनापि तत्र विनाशिपदव्युत्पत्तेरिति ।।
इति महामहोपाध्यायगदाधरभट्टाचार्य विरचिते
व्युत्पत्तिवादे तृतीयाविवरणम् ।