SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Namamurde KAAMITHAMMAMIAratana . '-. तृतीया ] जयाऽलङ्कृतः २७७ इत्थंभूतलक्षण इत्यनेन लक्षणवाचिपदात्ततीयाऽनुशिष्यते। लक्षणत्वं च व्यावर्तकत्वं तच्च विशेष्यतावच्छेदकसमानाधिकरणाभावप्रतियोगित्वम् । तदाश्रयश्च धर्मो द्विविधो विशेषणमुपलक्षणं च । विद्यमानं सद्यावर्तकं विशेषणम् । पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिः । अविद्यमानं व्यावर्तकमुपलक्षणम् । तापसादेः कालान्तरीणजटादिकम् । विशेषणस्य संबन्धो मतुबादिभिः प्रत्याय्यते । अस्तीत्यर्थे विहितानां वर्त्तमानसंबन्धार्थकत्वात्। अतो जटाभिस्तापस इत्यादावविद्यमानजटादेः संबन्धविवक्षया मतुबाद्यनवकाशात् तृतीया । तथा च विद्यमानत्वस्याविद्यमानत्वस्येवाप्यप्रत्यायनात् विशेषणवाचिपदादपि तृतीया। यथा ज्ञायमानत्वेन लिङ्गं करणमित्यादौ । अथ तत्र ज्ञायमानत्वादिवैशिष्टय तृतीयया लिङ्गादौ न प्रत्याय्यते अपि तु पदार्थंकदेशे करणत्वादावेव । तदवच्छिन्नत्वमिति चेत्तथापि सा विशेषणतृतीयैव अनुशासनान्तराभावात् । वस्तुतो लिङ्गादौ ज्ञायमानत्वादिवैशिष्टयबोधनेऽपि संबन्धविधया करणत्वज्ञायमानत्वाद्योरवच्छेद्यावच्छेदकभावभानसंभवादेकदेशान्वयस्वीकारोऽनुचितः। न च संबन्धविधया करणत्व एकदेशेऽवच्छिन्नत्वभानेऽप्येकदेशान्वयध्रौव्यमिति वाच्यम् । करणाभेदरूपे करणत्वे करणस्य संबन्धविधया भासमाने ज्ञायमानत्वावच्छिन्नत्वस्यावच्छेदकतया भानोपगमेनैकदेशान्वयं विनाप्यवच्छेद्यावच्छेदकभावभानात् । अथ दण्डवानयमासीदण्डी गतवानित्यादौ दण्डस्यातीततया विशेषणत्वासंभवान्मतुबाद्यनुपपत्तिरिति चेन्न । प्रकृतशब्दप्रयोगाधिकरणकालावच्छिन्नस्येव विधेयान्तरसमभिव्याहारस्थले तदधिकरणकालावच्छिन्नस्य संवन्धस्यापि मतुबादिना प्रत्यायनात् । तत्रातीतकालसत्त्वादिरूपविधेयाधिकरणातीतादिकालावच्छिन्नसंबन्धस्यैव मतुवाद्यर्थत्वात् । अविद्यमानोऽपि दण्डादिर्धर्मान्तरसंबन्धसमानकालीनतया धर्मा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy