SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७६ व्युत्पत्तिवादः [ कारके तं प्रति प्राधान्येन भाननियमव्याघातात् । एवमनागच्छन्तमपि पुरुषमधिकृत्य तथा प्रयोगात्तत्रायोग्यताप्रसङ्गाच्च । एतेन तत्र पर्युदासनञ्वत्क्रियायोगपरित्याग इत्युक्तावपि न प्रतीकारः । न च तत्रागमनाभावकाल एव पुरुषान्त्रयी सहशब्दार्थः । तथा च पुत्रागमनाभावकालावच्छिन्नपुरुषे वर्त्तमानकालावच्छिन्न आगमनाभावः प्रतीयत इति न काचिदनुपपत्तिरिति वाच्यम् । यत्रास्य पुत्र आयाति न त्वयं तत्रापि तादृशप्रयोगात् । तत्र च पुत्रागमनकालावच्छिन्नस्यागमन कर्तृत्वाभावस्य सत्त्वेऽपि पुत्रागमनकालावच्छिन्न एव पुरुषे वर्त्तमानकालावच्छिन्नागमनाभावस्य सत्त्वेनायोग्यतापातात् । मैवम् । सहशब्दार्थस्तत्तत्क्रियाकालः क्वचित्तत्तत्क्रियान्वयिप्रथमान्तपदार्थेऽन्वेति । कचिच्च समभिव्याहृतक्रियायाम् । सपुत्र आगच्छतीत्यस्य पुत्रेण सहागच्छति य इति विग्रहात् प्रथमान्तान्यपदार्थ एव पुत्रागमनकालान्वयो न तु क्रियायामिति न समासानुपपत्तिः । न वान्यपदार्थपुरुषालाभः । न चैवं समासलभ्यस्य पुत्रागमनकालावच्छिन्नस्य पुंसो विग्रहवाक्येनापि प्रतिपादनाबहुव्रीहिमात्रस्यैव नित्यसमासत्वमिति भज्येतेति वाच्यम् । बहुव्रीहिमात्रस्य तथात्वानियमात् । प्रथमान्तानुपस्थाप्यान्यपदार्थबोधकबहुव्रीहेरेव तत्त्वाभ्युपगमात् । अत्र चान्यपदार्थस्य प्रथमान्तोपस्थाप्यत्वात् । न च वृष्टे देवे गत इतिवत् प्रथमार्थे बहुव्रीहेरसाधुत्वमिति वाच्यम् । अनेकमित्याद्यनुशिष्टबहुव्रीहावेव तन्नियमात् । अत्र च सूत्रान्तरेण तद्विधानात् । अत एव तदारम्भोऽपि । पुत्रेण सह नागच्छतीत्यादौ च क्रियायामेव तादृशसहार्थान्वय इति पुत्रागमनकालीनागमनकर्तत्वाद्यभावः प्रथमान्तार्थे प्रतीयत इति सर्वं सुस्थम् । भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामपि गर्दभ्यां 'सहैव दशभिः पुत्रै' - रित्यादौ वर्त्तमानेत्यध्याहाराद्वर्त्तमानत्व क्रियामादायैव साहित्यबोध इति वदन्ति ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy