________________
तृतीया ] जयाऽलङ्कृतः
२७५ शब्दार्थान्वयवलादेव तक्रियाकर्तृत्वस्य पुरुषादौ लाभे प्रकारतयापि क्रियापदेन तत्प्रतिपादनमफलमिति तत्प्रयोगो व्यर्थ इति वाच्यम् । समभिव्याहृतपदेन तत्तत्क्रियाया अनुपस्थापने सहशब्देनापि तत्तक्रियाघटितसाहित्यस्याशक्यस्य बोधनं न संभवतीति क्रियापदप्रयोगस्यावश्यकत्वात्। सहशब्दार्थक्रियायाः कर्तत्वादिसंबन्धेन नामार्थेऽन्वयश्च न व्युत्पत्तिविरुद्धः। सहशब्दस्याधातुत्वात् , निपातत्वाच्च । न च 'प्रासोष्ट शत्रुन्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेने'त्यादौ शत्रुघ्नप्रसवलक्ष्मणप्रसवयोः समानकालीनत्वाभावात् क्रियाद्वयसमानकालीनतायाः सहशब्दार्थत्वासंभव इति वाच्यम् । तत्रापि स्थूलकालघटितसमानकालीनत्वसत्त्वात् । न च कालत्वेनैव कालस्य तदर्थान्तर्भावे पुत्रागमनपूर्वमागन्तरि आगतोऽयं न पुत्रेण सहेति प्रयोगानुपपत्तिः । पुत्रागमनाधिकरणस्थूलकालवृत्त्यागमनकर्तृत्वसत्त्वेनान्वयितावच्छेदकरूपावच्छिन्नप्रतियोगिताकसाहित्याभावबाधादिति वाच्यम् । तत्र क्षणत्वेनैव कालस्य सहशब्दार्थेऽन्तर्भावनीयत्वात् । एवं यत्र एककालेऽपि विभिन्नस्थले भुञ्जानमधिकृत्य न सह भुङ्क्त इति प्रयुज्यते तत्रैकशालारूपभोजनाधारोऽपि सहशब्दार्थऽन्तभोवनीयः। अत एवा'लापाद्वात्रसंस्पशान्निःश्वासात्सहभोजना'दित्यादिना पतितभोजनसमानकालीनभोजनमात्रस्य पापजनकत्वं न बोध्यते । एकपङ्क्तेरपि विवक्षणात् । एवं 'याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । सद्यः पतति कुर्वाणः पतितेन न संशय' इत्यादावेकदैकपात्रभोजनस्यैव सद्यःपातहेतुत्वं प्रत्याय्यते । तत्र तादृशार्थस्यैव सहशब्देन विवक्षणात् । अथ नामार्थस्यैव सहार्थविशेष्यतयान्वयोपगमे पुत्रेण सह नागच्छत्ययमित्यादौ सहशब्दार्थपुत्रसाहित्याभाव एव पुरुषांशे नबा बोध्यत इत्युपगन्तव्यम् । तच्च नोपपद्यते। तथासत्याख्यातार्थोद्देश्यतावच्छेदकतयैव नबर्थभानस्योपगन्तव्यतया प्रसज्यप्रतिषेधस्थले निषेधस्य