SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७४ व्युत्पत्तिवादः [ कारके स्वार्थगोगेऽपि साहित्यप्रतियोगिवाचकपदात्तृतीया पुत्रण सहागत इत्यादौ । अथ यदि सहशब्दार्थः समभिव्याहृतपदोपस्थाप्यक्रियासमानकालीनक्रियान्वयित्वम्, तदन्वयित्वं च समभिव्याहृतक्रियाबोधकपदेन क्रियाया यादृशः सम्बन्ध साहित्यान्वयिनि प्रत्याय्यते तादृशतत्संबन्ध एव, स च पुत्रेणेत्यादौ कर्तृत्वम् । दन्ना सहौदनो भुज्यत इत्यादौ कर्मत्वादिस्तृतीयार्थोऽपि स एव संवन्धः, तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तत्वदधिकर्मकभोजनसमानकालीनभोजनकर्मत्वादिकं पुरुषौदनादौ तत्र तत्र प्रतीयत इत्युच्यते तदा सहशब्देनैव तत्तत्क्रियाकर्तृत्वबोधने क्रियापदवैयर्थ्यम् । क्रियान्वयिनि क्रियान्वयबोधस्योद्देश्यतावच्छेदकविधेययोरभेदेन निराकाङ्क्षतयाऽसंभवाच्च । न च तत्तक्रियासमानकालीनत्वमात्रं सहशब्दार्थः । तस्य च क्रियापदोपस्थापितक्रियायामेवान्वय इति क्रियापदसहितसहशब्दादेवोक्तविशिष्टार्थलाभ इति वाच्यम् । एवं सति पुत्रेण सहागत इत्यादौ सहशब्दार्थस्य क्रियापदार्थान्वयित्वेनान्यसापेक्षतया तेन सह पुत्रशब्दम्य समासासंभवेन सपुत्र इत्यादिप्रयोगानुपपत्तेः । न ह्यत्र समासे सहार्थस्य प्राधान्यम् । येनान्यसापेक्षत्वेऽपि समासो भवेत् किंतु बहुव्रीहित्वादन्यपदार्थप्राधान्यमेवेति चेन्न । समभिव्याहृतपदोपस्थाप्यक्रियाकाल एव सहशब्दार्थः तस्य क्रियान्वयिनि नामार्थ एवान्वयः । तादृशकालविशिष्टे नामार्थे क्रियान्वये च क्रियायामपि तादृशकालावच्छिनत्वं भासते। उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पत्तिसिद्धत्वात् । अतः क्रियाद्वयसमानकालीनत्वलाभ इति सामञ्जस्यात्। अथवा आगमनसमानकालीनागमनादिकमेव सहशब्दार्थः।तस्य कर्तृत्वादिसंबन्धेन पुरुषादावन्वयः। तादृशसंबन्धेन तद्विशिष्टे चागत आगच्छतीत्यादिपदोपस्थाप्यागमनकर्तृत्वादीनामन्वये न व्युत्पत्तिविरोधः। विधेयस्योद्देश्यतावच्छेदकप्रकाराभेदविरहात्। नच सह
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy