SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २८० व्युत्पत्तिवादः [ कारके विशेषः । स्वस्वत्वध्वंसावच्छिन्नत्याग एव ददात्यर्थो न तु परस्वत्वफलावच्छिन्नोऽपीति वाच्यम् । उपेक्षायामपि दहातेमुख्यार्थतापत्तेः। मैवम् । फलायलपेष्टल्कमेकाहि कर्मलम् । फलसंबन्धितयेष्टत्वं संपनत्वम् । ब्राह्मणादिश्च न त्यागजन्यस्वत्वाश्रयतया दातुरिष्टोऽपि तु तन्निरूपकतयैवातो न तस्य कर्मता। न चाश्रयत्वमपि संबन्धविशेष इति गवादेरपि संप्रदानत्वं दुर्वारम् । आश्रयत्वेनाभिप्रायस्थले कर्मसंज्ञया बाधादन्य एव हि संबन्धः संप्रदानताघटक इति यद्युच्येत तदा वृक्षायोदकमासिञ्चति, पत्ये शेत इत्यादौ सेकजन्यजलसंयोगशयनजन्यप्रीत्याद्याश्रयतयाभिप्रेतस्य वृक्षपत्यादेः संप्रदानत्वानुपपत्तिरिति वाच्यम् । धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धस्य संप्रदानत्वशरीरे निवेशेन सामञ्जस्यात् । वृक्षायोदकमासिञ्चतीत्यादौत्रकलब्यकियानकलव्यापारो धात्वर्थः। सम्प्रदानतानिर्वाहकसंयोगश्च न तादृशधात्वर्थतावच्छेदक इति तदाश्रयत्वं निरुक्ताश्रयताभिन्नमेवेति तत्प्रकारकाभिप्रायविषयवृक्षादे: संप्रदानतानिर्वाहात् । न च पत्ये शेत इत्यादौ पात्वर्थतावच्छेदकफलाप्रसिद्धथा तदनुपपत्तिः। भेदप्रतियोगिविष्टधात्वर्थतावच्छेदके फलत्वानिवेशेन प्रसिद्धिसंभवात् । एवं च बाह्मणायेत्यादौ ब्राह्मणनिरूपितत्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकर्तेति बोधः । निरूपितत्वेन कर्तुरिच्छाविषयत्वं द्वितीयान्तार्थगोवृत्तित्वान्वयिधात्वर्थतावच्छेदकस्वत्वान्वयिचतुर्थ्यर्थः। स्वत्वजनकत्यागश्च ददात्यर्थः। अत्र केचित् । ददातियोगे धात्वर्थतावच्छेदकस्वत्वनिरूपकत्वमेव संप्रदानत्वं तदेव च मुख्यम् । तथा च तत्र निरूपितत्वमात्रं चतुथ्यों धात्वर्थतावच्छेदकस्वत्वेऽन्वेति । अत एव श्राद्धस्य पित्रपेक्षया यागत्वमेव दानत्वं तु ब्राह्मणापेक्षति शूलपाणिः । तत्र त्यज्यमानेऽर्थे पितॄणां स्वत्वानुत्पत्त्या संप्रदानत्वासंभवात् स्वत्वभा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy