SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ चतुर्थी ] जयाऽलङ्कृतः २८१ गित्वेनोद्देश्यत्वं यदि संप्रदानत्वं स्यात्तदा पितृणामपि तथात्वाक्षतेः, पित्रपेक्षयापि दानत्वं स्यात् । न हि श्राद्धे पितृणां स्वत्वभागित्वेन नोद्देश्यत्वम् । पितरेतत्तेऽन्नं स्वधेत्यादिश्राद्धरूपत्यागाभिलापस्य स्वधार्थे त्यागे चतुर्थ्याः स्वत्वभागित्वेन पित्रादेरुद्देश्यत्वबोधकत्वात् । स्वत्वभागित्वेनोद्देश्यस्यापि पित्रादेः स्वीकाराभावान्न स्वत्वं ब्राह्मणानां तत्रानुद्देश्यत्वेऽपि स्वत्वं प्रतिपत्तितो जायते । अनुद्देश्यत्वेऽपि च संप्रदानत्वमुपपादितमेव । पितृणामिव ब्राह्मणानामपि च स्वत्वभागित्वेनोद्देश्यत्वमप्यविरुद्धम् । धात्वर्थतानवच्छेदकफलभागितया यत्र संप्रदानत्वं वृक्षायोदकं सिञ्चति, पत्ये शेत इत्यादौ तत्रोद्देश्यत्वांशनिवेश आवश्यकः । यत्रान्योद्देशेन क्षिप्तजलस्य दैवावक्षसंयोगोऽन्योद्देशेन शयनादितश्च पत्यादेः फलसबन्धस्तत्र तथा प्रयोगविरहात्। अत एव तत्र चतुर्थ्यर्थः वृक्षादिनिष्ठतया कत्रंभिप्रेततत्तत्फलं प्रति जनकत्वम्। तच्च सेकादिक्रियायामन्वेति । भाक्तं च तत्र संप्रदानत्वम् । उद्देश्यत्वागर्भसंप्रदानत्व एव लाघवाच्छक्तेरितरत्र लक्षणाया अभ्युपगमात् । पितृभ्यो दद्यादित्यादावनिर्धारितकर्तृकसंप्रदाने चतुर्थी । तत्त्वं च तत्र त्यागजन्यस्वत्वभागितयोद्देश्यत्वमेव । अथ जनान्तरस्य वृक्षादिनिष्ठजलसंयोगादिरिच्छाविषयोऽन्येन च जनेनान्योद्देशेन क्षिप्तजलादेव॒क्षादिसंयोगस्तत्रापि वृक्षायोदकमासिञ्चति जन इत्यादिप्रयोगापत्तिः । तत्तद्वयक्तित्वस्य पदेनानुपस्थापनात्। तेन रूपेण विशेष्यभूतकर्तव्यक्तीनामिच्छांशे भानासंभवादुपस्थितजनत्वावच्छिन्नेच्छाविषयत्वस्य च वृक्षसंयोगादावबाधात् । एवं तदीयकालान्तरीणेच्छामादायाप्यतिप्रसङ्गतादवस्थ्यमिति चेन्न । वृक्षादिनिष्ठत्वेनेच्छैव हि चतुर्थ्यन्तार्थः । तस्याञ्च स्वविषयसंयोगादिजनकत्वस्वजन्यत्वोभयसंबन्धेन सेकादिक्रियायामन्वयः। उक्तस्थले च यत्क्रियाव्यक्त्या जलसंयोगादिवृक्षादौ जन्यते तत्र कालान्तरीणपुरुषान्तरीणेच्छायाः स्वविषयसंयोगा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy