________________
२८२
व्युत्पत्तिवादः __ [ कारके दिजनकत्वसंबन्धसत्त्वेऽपि स्वजन्यत्वाभावानोभयसंबन्धेनेच्छावैशिष्टयमित्ययोग्यतैवेति वदन्ति ।
अत्रेदं बोध्यम् । उद्देश्यत्वागर्भत्यागजन्यस्वत्वभागित्वस्य ददातिसंप्रदानतारूपत्वे मैत्रोद्देशेन यद्दत्तं तत्र तादृशदानेन दम्पत्योर्मध्यगं धनमित्यतस्तत्पत्न्या अपि स्वत्वस्य प्रामाणिकतया संप्रदानत्वेन चैत्रपस्न्यै दत्तमिति व्यवहारापत्तेः । न च पत्युः स्वत्वमेव पत्नीस्वत्वं जनयति । न तु तत्सामग्रीति वाच्यम्। स्वत्ववति स्वत्वान्तरानुत्पत्तेः। तथा च सर्वत्रैवोद्देश्यत्वान्तर्भावः। भवतु च पितृभ्यो दद्यादित्यत्रापि मुख्यमेव संप्रदानत्वं चतुर्थ्यर्थः । अस्तु वा स्वस्वत्वेच्छाधीनतत्कत्वमेव मुख्यदानरूपक्रियासंप्रदानत्वं पितृस्वत्वाप्रसिद्धया न तेषां संप्रदानत्वं चतु
Nों धात्वर्थतावच्छेदकस्वत्वान्वयि निरूपितत्वं स्वत्वस्य च स्वत्वध्वंसेच्छारूपे त्यागे जनकत्वस्वेच्छाधीनत्वोभयसंबन्धः। तल्लाभश्च विशिष्टस्य धातुशक्यतामते शक्तिलभ्य एव, तदन्तर्भावेणैव शक्त्यभ्युपगमात् । फलव्यापारयोः पृथक् धात्वर्थतामते
आकाङ्क्षाबलादेव तादृशसंबन्धलाभः । पितृभ्यो दद्यादित्यत्र च धात्वर्थान्तर्गतस्वत्वे चतुर्थ्या पित्राद्यन्वयी निरूपितत्वरूपो मुख्योऽर्थो बाधितत्वान्न प्रत्याय्यते, अपि तु निरूपितत्वेनेच्छाविषयत्वरूपो लक्ष्यार्थ एव । ददातिस्तु तत्र मुख्य एव, श्राद्धस्यापि ब्राह्मणापेक्षयादानत्वात् । श्राद्वे ब्राह्मणस्य संप्रदानतानिहायास्ति चोद्देश्यतापि ब्राह्मणस्येत्यादिकमभिदधानस्य शूलपाणेरपि संप्रदानत्वशरीर उद्देश्यत्वांशपरित्यागे निर्भरोऽवगम्यते। कर्मणा यमभिप्रैतीति प्रणयतो महर्षेः पाणिनेरपि संमतोऽयमर्थः। शत्रवे भयं ददातीत्यादौ जनयतीति भाक्तोऽर्थः। एवं चोत्पादकव्यापाररूपे धात्वर्थे भयरूपं कर्म तद्योगितयोद्देश्यत्वात् शन्वादेः संप्रदानत्वम्।