SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ चतुर्थी ] जयाऽलङ्कृतः २८३ युद्धाय संनह्यत इत्यादौ संनहनादिक्रियाजन्यफलासंबन्धाधुद्धादेर्न संप्रदानतानिर्वाह इति नेयं संप्रदानचतुर्थी अपि त्वेन्धानाहतु व्रजतीत्यर्थे एधेभ्यो व्रजतीत्यत्रेव युद्धं कर्तुं सोढुं वा संनह्यत इत्यर्थविवक्षया क्रियार्थोपपदेति सूत्रान्तरेण तस्य च स्थानिनोऽश्रूयमाणस्य क्रियार्थोपपदस्य तुमुन्नन्तधातोः कर्मणि स्वार्थनिष्ठकर्मत्वे विवक्षिते स्वोत्तरं चतुर्थीत्यर्थः। तथा चाहरणकरणसंनहनाद्युद्देश्यकत्वं तादृशचतुर्थ्यर्थ इत्यवधेयम् । अथ यदग्नये च प्रजापतये च सायं जुहोतीत्यादावन्यादेरिव 'सर्वभूतेभ्य उत्सृष्टं मयतज्जलमूर्जितमि'त्यादौ सर्वप्राणिनामिव पशुना रुद्रं यजत इत्यादावपि त्यागविशेषरूपक्रियायां रुद्रादेरनिराकर्तृसंप्रदानतया चतुर्थी स्यादिति चेन्न । गौरवितप्रीतिहेतुक्रिया यज्यर्थः। तदर्थतावच्छेदकफलं प्रीतिस्तदाश्रयतया रुद्रस्य विवक्षितत्वात्कर्मसंज्ञकत्वेन द्वितीयैव न तु चतुर्थी । त्यागात्मकतादृशक्रियायां निरुक्तानिराकर्तृसंप्रदानत्वे सत्यपि तदविवक्षणात्। प्रीतिभागितयोद्देश्यत्वरूपसंप्रदानत्वविवक्षायां च रुद्राय यजत इत्यपि प्रयोगः। उभयविवक्षायां परत्वेन कर्मसंज्ञया वाधाद्वितीयैव । जुहोत्युत्सृजतीत्यादेः प्रीतिरूपफलावच्छिन्नत्यागावोधकतया त्यागरूपक्रियाजन्यप्रीतिभागिनो देवतादेस्तत्कर्मताविरहान्नैव प्रजापतिं जुहोति भूतान्युत्सृजतीत्यादयः प्रयोगाः।। रजकस्य वस्त्रं ददातीत्यत्र ददातिर्न त्यागार्थकोऽपि तु परायत्तीकरणार्थको गौण: । तदायत्तीकरणं च प्रकृते तत्कर्तृकनिर्णेजनेच्छाप्रकाशको व्यापारः। तदेकदेशे कर्तृत्वे रजकस्य संबन्धविवक्षायां शैपिकी षष्ठी। हन्तुः पृष्ठं ददातीत्यत्र तत्कर्तृकताडनानुमितिप्रकाशकव्यापार एव ददात्यर्थः । तदेकदेशे कर्तृत्वे हन्तुः संवन्धविवक्षायां षष्ठी । एवं संवाहकस्य चरणं ददातीत्यादावूहनीयम् । नारदायरोचते कलह इत्यादौ रुच्यर्थानामित्यनुशासनेन प्रीतिजनकतारूपरुच्यर्थघटकप्रीतिभागिनः संप्रदानसंज्ञा विहिता, तत्र
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy