SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २८४ व्युत्पत्तिवादः [ कारके चतुर्थ्यर्थ आश्रितत्वं प्रीतावन्वेति । तादृशक्रियाश्रयतया कलहादेः कर्तृता। पुष्पेभ्यः स्पृहयतीत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सित इत्यनेन संप्रदानत्वाच्चतुर्थी तदर्थो विषयित्वं तस्येच्छारूपक्रियायामन्वयः । ___पुत्राप ग्रुप्यतीत्यत्र क्रुधदुहेत्यादिसूत्रेण कर्मणः संप्रदानसंज्ञा। तत्रापि चतुर्थ्यर्थो विषयित्वं कोपेऽन्वेति । क्रोधस्य द्वेषविशेषात्मकतया भक्तिश्रद्धादिवत् ज्ञानविशेषरूपत्वेन वा सविषयकत्वात् । एवं शत्रवे द्रुह्यतीत्यादावपि तेनैव संप्रदानत्वं, सेहोऽपचिकीर्षा अहितेच्छेति यावत् । अहितभागितयेच्छाविषयता तन्निरूपकत्वं चतुर्थ्यर्थ इच्छान्वयी, अहितान्वय्याधेयत्वं वा । अतः कर्मणेत्यादिसूत्रस्याविषयः। ईन अक्षान्तिः । परोत्कर्षासहिष्णुता परोत्कर्षगोचरो द्वेष इति तद्विषयस्य परस्य तेनैव संप्रदानता। मसूला गुणिनि दोषाविष्करणम् । तद्विषयस्याप्यनेन संप्रदानता विषयताविशेषस्तत्र चतुर्थ्यर्थः। विप्राय शतं धारयतीत्यादौ धारेरुत्तमर्ण इत्यनेन धनिकविप्रादेः संप्रदानता। कोऽयं धार्यर्थः ? न तावद्रव्या-तरदानमङ्गीकृत्य परदत्तद्रव्यादानम् । तथा सत्यादानात्परतो धारयतीति प्रयोगानुपपत्तेः आदानस्यावर्त्तमानत्वात् । न चेष्टापत्तिराविशोधनं तथा प्रयोगात्। नापि तादृशादानध्वंस:, अधमर्णस्य तदकर्तत्वात् । नचादानमिच्छाविशेषस्तद्वतः पुंसस्तदाश्रयतया तत्कर्तववत्तद्ध्वंसाश्रयतया तत्कर्तत्वमप्यक्षतमिति वाच्यम् । एवमप्यादानध्वंसस्य परिशोधनोत्तरमपि सत्त्वेन तदानीमपि धारयतीति प्रयोगापत्तेः । न च परिशोधनप्रागभावविशिष्टो निरुक्तादानध्वंसस्तथा। ऋणीकृतद्रव्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादायधारयतीत्यापत्तेः। न च स्वप्रतियोगिनिर्वाहकाङ्गीकारविषयद्रव्यदानप्रागभावविशिष्टादानध्वंसस्तथा यहणं परिशोधितं तावद्रव्यं च पुनर्गृहीत्वा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy