________________
ताया अभावनिष्ठविशेष्यतानिरूपितप्रकारतासामानाधिकरण्येन मुख्यत्वाभावात् । नन्वेवमपि प्रतियोगितासम्बन्धेनाभावविशिष्टं प्रत्यक्षञ्जायतामितीच्छायां शाब्दसामग्रयाः प्रतिबन्धकत्वानापत्त्या प्रत्यक्ष दुर्वारमिति चेन्न । अभावनिष्ठविषयतानिरूपितप्रतियोगित्वनिष्ठविषयतानिरूपितत्वाभाववती या स्वविशिष्टाविषयता तद्भाववत्वस्यैव प्रवेशेनादोषात् । यत्तु अन्यस्य प्रत्यक्षसामग्री शाब्दसामग्री चास्ति अन्यस्य प्रत्यक्षजायतामितीच्छा तादृशेच्छीयविषयतायाः सामग्रीविशिष्टत्वात् तदभावस्वत्वाभावात् प्रत्यक्षं प्रति प्रतिबन्धकत्वानापत्तिः। एवं मासादूर्ध्वं प्रत्यक्षञ्जायतामितीच्छायामपीति वदन्ति--तन्न युक्तम् । अन्यवृत्तित्वविशिष्टे मासोत्तरत्वविशिष्टे च प्रत्यक्षे तादृशविषयता च यस्य प्रत्यक्षसामग्री तदीयप्रत्यक्षस्य तत्कालिकस्य तादृशविषयत्वाभाववत्वमेवेति स्वविशिष्टत्वात् तादृशप्रत्यक्षप्रतिबन्धकत्वसिद्धेः । वस्तुतस्तु यत्र घटवद्भूतलमिति प्रत्यक्षसामग्री अनुमितिसामग्री राज्ञः पुरुष इतिवाक्यजन्यशाब्दसामग्री चास्ति शाब्देतरज्ञानञ्जायतामितीच्छायामनुमित्याऽपीच्छाया विषयसिद्धया इच्छाया अनुत्तेजकतया शाब्दबोध एव, न प्रत्यक्ष दिक, तच्चेदानीमनुपपन्नन्तादशप्रत्यक्षस्य स्वविशिष्टविषयतावत्वेन सम्बन्धासंघटनात् तत्प्रत्यक्षम्प्रति प्रतिबन्धकत्वानापत्तेरिति नानुगमसम्भवः । तथा च राजनिरूपितस्वत्वाभाववान् पुरुषः सुन्दर इति प्रत्यक्षत्वावच्छिन्नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनं संसर्गतावादिनां गौरवमिति सुधियो विभावयन्तु । प्रकारतावादिनान्तु नेति मूल एवोपपादितमिति तत्रैव द्रष्टव्यम्। स्वोत्तरत्वसम्बन्धेन स्वसमानाधिकरणेच्छाविशिष्टान्यस्वजन्यशाब्दबोधाविषयकप्रत्यक्षत्वावच्छिनम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वमित्यनु
क्षत्वावच्छिन्नं प्रति स्वत्वसंसर्गावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्टताकशाब्दसामग्रीत्वेनैव प्रतिबन्धकताकल्पनात्। एकः प्रतिबध्यप्रबन्धकभावः संसर्गातावादिमतेऽधिकं इत्यवधेयम् ।