________________
च्छोयज्ञानत्वावच्छिन्नविषयतायाः प्रत्यक्षे सत्त्वेऽपि प्रत्यक्षत्वावच्छिन्नविषयता नास्तीति सम्बन्धघटनात् निरुक्तप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वात् । नन्वेवमपि यत्र राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्री घटवद्भूतलमित्यादिप्रत्यक्षसामग्री चारित तत्र शाब्देतरज्ञानजायतामितीच्छायां प्रत्यक्षमेव जायत इतीच्छाया उत्तेजकत्वात् । साम्प्रतञ्च शाब्दसामग्रीविशिष्टेच्छानिरूपितशाब्देतरत्वावच्छिन्नैव विषयता न तु प्रत्यक्षत्वावच्छिन्नेति प्रत्यक्षत्वावच्छिन्नविषयत्वाभाववत्वस्य प्रत्यक्ष सत्त्वात् । तादृशप्रत्यक्षत्वावच्छिन्नं प्रत्यपि राज्ञः पुरुा- इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वापत्तिरिति चेन्न । प्वजन्यशाब्दबोधाविषयविषयकत्वस्वजन्यशाब्दबोधावृत्तित्व-स्वविशिष्टेच्छा निरूपितत्वोभयसम्बन्धेन स्वविशिष्टविषयत्वाभाववत्वोभयसम्बन्धेन स्मविशिष्टप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनेन शब्देतरज्ञानञ्जायतामितीच्छीयविषयताया निरुक्तोभयसम्बन्धेन सामग्री वैशिष्टत्वेन तादृशविषयतावत्वस्यैव प्रत्यक्षे सत्त्वेन निरुक्तोभयसम्बन्धेन सामग्रीविशिष्टत्वाभावात् तादृशप्रत्यक्षम्प्रत्यप्रतिबन्धकत्वेनादोषात् । न च यत्र शाब्दसामग्री प्रत्यक्षसामग्री च तत्र प्रत्यक्षाभावो जायतामितीच् छायामपि शाब्दबोध एव न प्रत्यक्षमिति सिद्धान्तः । स चेदानीमनुपपन्नस्तादृशेच्छीयप्रत्यक्षवृत्तिविषयतायां राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रीजन्यशाब्दबोधवृत्तित्वस्वविशिष्टेच्छानिरूपितत्वयोस्सत्त्वात् स्वविशिष्टत्वे न स्वविशिष्टविषयत्वाभाववत्वरूपसंबन्धाघटनात् स्वविशिष्टत्वाभावात्तादृटाप्रत्यक्षम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वानापत्त्या प्रत्यक्षस्य दुर्वान्त्वादिति वाच्यम् । स्वविशिष्टमुख्य विशेष्यत्वाभाववत्वस्य सम्बन्धत्वेनाद षात् । प्रकृतविपय
विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिका स्वविष पत्वस्वसमानकालीनसामग्रीनिरूपकत्वैतदुभयसबन्धेनेति वाच्यम् । प्रत्यक्षस्य प्रतिबध्यत्वात् । .इच्छाविशिष्टतादृशप्रत्यक्षाभावात् । एवञ्च घटवद्गतलमित्येतादृशप्रत्य