SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ निरुक्तसम्बन्धेन, शाब्दसामग्रीविशिष्टत्वेन तं प्रति तस्याः प्रतिबन्धकत्वात् । यत्र च प्रत्यक्षेच्छ तत्र स्वसमानाधिकरणेच्छाविषयत्वमेव प्रत्यक्षस्यति न तत्र तं प्रति ताशसामग्रयाः प्रतिबन्धकत्वमिति प्रत्यक्षमेव न शाब्दबोधः । एवञ्च राजनिरूपितस्वत्वाभाववान् पुरुष इति प्रत्यक्षस्यापि निरुक्तद्वयसम्बन्धेन शाब्दसामग्री विशिष्टत्वात् तम्प्रत्यपि शाब्दसामग्रयाः प्रतिवन्धकत्वेन प्रत्यक्षवारणसम्भवान्न विशिष्य तादृशप्रत्यक्षम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनमिति न संसर्गतावादिनामपि गौरवमिति तदपि न। यत्र निरुक्तशाब्दसामग्री प्रत्यक्षसामग्रीचास्ति चैत्रस्य मयि प्रत्यक्षं जायतामितीच्छास्ति तत्र चैत्रवृत्तीच्छाया अपि स्वाधिकरणकालवृत्तित्वेन शाब्दसामग्रीसमाना धेकरणतादृशेच्छाविषयत्वमेव प्रत्यक्षस्येति इच्छाविषयत्वाभाववत्वरूपसम्बन्धासंघटनात् सामग्रीविशिष्टत्वाभावेन निरुक्तप्रतिबध्यप्रतिबन्धकभावानाक्रान्ततया तादृशेच्छाया अप्युत्तेजकत्वापत्तेः । इष्टन्तु नोत्तेजकत्वं प्रत्यक्षेऽपि तस्येच्छायाविषयासिद्धेः । भूतकालिकेच्छाया अप्युक्तरीत्या उत्तेजकत्वापत्तेश्च यद्यपि स्वाधिकरणकालवत्तित्वस्वाधिकरणदेशवृत्तित्वोभय सम्बन्धेन सामग्रीविशिष्टत्वस्यैव स्वसमानाधिकरणत्वेनादोषस्तथापि यत्र विभिन्नविषयकप्रत्यक्षसामग्रीशाब्दसामग्रीज्ञानञ्जायतामितीच्छा चास्ति तत इच्छायाः प्रत्यक्षोत्तेजकत्वं नास्ति तं विनाऽपि विषयसिद्धेः । इदानीञ्च सामग्रीविशिष्टतादृशेच्छाविषयत्वमेव प्रत्यक्षस्येति इच्छाविषयत्वाभाववत्वाभावात् तादृशप्रत्यक्षम्प्रति प्रतिबन्धकत्वाभावात् प्रत्यक्षापत्त्या तादृशेच्छाया अप्युत्तेजकत्वापत्तेस्तादृशरीत्यानानुगमसम्भवः । न च स्वविशिष्टेच्छाविषयत्वाभाववत्वस्य स्थाने स्वविशिष्टेच्छानिरूपितप्रत्यक्षत्वावच्छिन्नविपयत्वाभाववत्वस्य निवेशेनादोषः । ज्ञानञ्जायतामिती मेव भवति । तत्राधना प्रत्यक्षेच्छाविरहविशिष्टाभावेन तादृशशाब्दसामग्रयाः प्रतिबन्धकत्वा भावात् पटवद्भूतलमित्येतादृशप्रत्यक्षमपि स्यात् । न च राज्ञः पुरुष इत्येत् द्वाक्यजन्यशाब्दसामग्री स्ववृत्तिविरहप्रतियोगिनीच्छा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy