________________
काम इत्यादिप्रयोगः । न कारकपदप्रतियोगिपदयोर्भेदनिवेशनमफलमिति वाच्यम् । तन्निवेशस्य दृष्टान्तविधयोक्तत्वात् । यथा प्रतियोगिपदार्थस्य कुत्रापि अभेदान्वयो न भवति तथा वृत्त्येकदेशेनान्यपदार्थस्येत्यर्थे तात्पर्यादिति ध्येयम् । ___ अभेदविवक्षायां पण्डितं पुत्रीयति प्रवीरं पुत्रकाम्यतीत्यादिप्रयोगाभाववत् परपुत्रादिगोचरेच्छावति पुंसि पुत्रीयतीत्यादयो न प्रयोगाः । सुप आत्मन: क्यजित्यादिना इच्छाकर्तसम्बन्धि यदिच्छाकर्म तद्बोधकसुबन्तात् क्यचकाम्यचोविधानात् । संबन्धित्वं च सम्बन्धित्वेन भातत्वम् । अन्यथा यस्येच्छाकर्तुः पुत्रोऽप्रसिद्धस्तस्यापि स्त्रीयत्वेन पुत्रेच्छादशायां पूत्रीयुतीत्यादिप्रयोगस्य सर्वसिद्धस्यानुपपत्तेः। उक्तस्थले पुत्रौर्यतीत्यादिवाक्यस्य प्रामाण्यवारणाय च क्यजाद्यर्थेच्छायां पुत्रादेविषयित्वमात्रं न सम्बन्ध! किन्तु स्वांशे भासमान संबन्धस्य प्रतियोगितया यो विषयस्तीहशपुरुषवृत्तित्वसहितमभ्युपेयम् ।" संवन्धस्य क्यजाद्यवाच्यत्वेऽप्युक्तसम्बन्धेनैवेच्छायां सुबन्तार्थस्यान्वय इति व्युत्पत्तिप्रदर्शनायैव सूत्रे आत्मन इत्युपात्तम् । आत्मन इति षष्ठयर्थसम्बन्धश्च न धातोः कर्मण इत्यादि सूत्रानुवृत्तायामिच्छायामन्वेति, अज्यानलकत्वादुतार्थलाभाप्रयोजकत्वाच्च, अपि तु सुप इत्यर्थे' सुबन्तादित्यत्र स
PATreal
१ निवेशनमिति । तयोरभेदान्वयबोधौ वृत्त्येकदेशेनादर्शनादितिभावः ।
२ उक्तसम्बन्धेनैवेत्यादि। स्वनिष्ठकर्मतानिरूपकत्वस्वानयोगिकभासमानसम्बन्धप्रतियोगिवृत्तित्त्वोभयसम्बन्धेनैवेत्यर्थः । सुबन्तार्यस्य पुत्रादेरित्यर्थः । अन्वय इत्यस्येच्छायामिति शेषः ।।
३ इत्यर्थे इति । इत्यर्थभूते इत्यर्थः । ४स इति । सम्बन्ध इत्यर्थः ।