________________
द्वितीया ]
जयाऽलकृतः चेच्छाकर्त्तः सम्बन्धितयेच्छाविषयोंकलम। म च इच्छाकर्मण: सुबन्तादिच्छाकर्तुरिच्छायामिति वृत्तावपीच्छाकर्तुः सुबन्तादित्येव योजना कार्या । यथाश्रुते दर्शितानुपपत्तेरिति ध्येयम् । - भृत्यं पुत्रीयतीत्यादावाचारार्थविहितक्यजन्तस्य सकर्मकत्वं युज्यत एव । तथा हि तमिवाचरतीत्यर्थे उपमानवाचिन: क्यच विहितः। तमिवाचरतीत्यस्य तत्तुल्यं जानातीत्यर्थः । आचारपदस्य व्यवहारमूलज्ञानपरत्वात् । तुल्पतयाज्ञानं च क्यजर्थः। तच्च सकर्मकमेव । तत्र तुल्यत्वे प्रतियोगितया पुत्रादेरन्वयः पुत्रादिपदमेव वा गोण्या पुत्रादितुल्यपरम् । ज्ञानमात्रं क्यजर्थस्तत्र च स्वाभेदावगाहि वसम्बन्धेन पुत्रादितुल्यस्यान्वयः। = चैवं पुत्रादिपदमुपमेयार्थकमेव न तूपमानार्थकमिति कथमुपमानादाचार इत्यनेन तदुत्तरं क्यचो विधानं सङ्गच्छत इति वाच्यम् । पुत्रादिपदस्य तुल्यार्थकोऽपि तुल्यत्वप्रतियोगितयोपमानपुत्राद्यर्थकत्वात्। अत एव तस्य कमवाचकच पत्रादितुल्यस्याचारकर्मत्वात् सम्यगुपपद्यते । पूर्वमते उपमानपदस्य कर्मवाचकत्वं प्राचारकर्मविशेषणतुल्यताप्रतियोगिबोधकत्वरूपं बोध्यम् । वस्तुतः पुत्रमिवाचरतीत्यस्य पुत्रं यथा व्यवहरति तथा व्यवहरतीत्येवार्थः । व्यवहारश्च प्रतिपाल्यत्वादिना ज्ञानं प्रतिपालनादिरूपोव्यापारो वा। एवं च पुत्रीयतीत्यस्य पुत्रकर्मकव्यवहारतुल्यव्यवहारकर्तेत्यर्थः। मुखचन्द्रादेर्यथा स्वजन्याह्लादस्य तुल्यतयोपमानोपमेयभावस्तथा पुत्रभृत्ययोरपि स्वकर्मकव्यवहारतुल्यतया स इति पुत्रपदस्योपमानवाचिता । आचारनिष्ठसादृश्यप्रतियोग्याचारकर्मवाचिता च आचारसदृशाचार एव क्यचोऽर्थः। प्रथमाचारे कर्मतासंबन्धेन पुत्रादेरन्वयः । अमाद्यन्तात् क्यच्प्रत्ययविधानेऽपि धात्ववयवतया लुप्तस्यामादेनियमेनानुपस्थितेः कर्मत्वस्य सम्बन्धतया भानमुपेयते । यथा राजपुरुप इत्यादिसमासरूपप्रातिपदिकावयवतया लुप्तषष्ठयादिप्रतिसंधाना
परस्पास्मानपत्र
एकपमान: