________________
नियमाद्विभक्तयन्तार्थविशिष्टे पूर्वपदलक्षणोपेयते । द्वितीये श्राचारे भृत्यस्य कर्मतया क्यजन्तस्य सकर्मकत्वमिति कुत्रां प्रासादीयतीत्यादावाधाररूपोपमानवाचि सप्तम्यन्तोत्तरविहितक्यजन्तस्य न सकर्मकता। स्त्र चत्रासादाधिकरणकाचारतुल्याचार:क्यजन्तार्थः। स चावस्थानरूप एवेत्यकर्मक इति कुट्यास्तत्राधिकरणतया ततः सप्तम्येव । अक्स्थानयोः साम्यं चैकजातीयसुखजनकत्वादिना अविशेषज्ञानविषयत्वेन वा । हंस इवाचरति हंसायते हंसतीत्यादावुपमानवाचिकर्तृवाचकपड़ोत्तरविहितक्यङन्तकिवन्त धातुरप्यकर्मकस्तत्र हंसादिकतकाचारतुल्याचारस्य गमनादिरूप क्यङन्ताद्यर्थत्वेऽपि गम्यादिप्रतिपाद्यतावच्छेदकसंयोगादिरूप'फलानवच्छिन्नस्यैव तदर्थत्वोफममात् । शब्द ज्ञानादिरूपसविषयकव्यापारात्मकस्याचारस्य कचित्तदर्थत्वेऽपि विषयरूपकर्मावरुद्धस्यैव तस्य तदर्थत्वोपगमात् । कमविरुद्धस्य च कर्मान्वय निराकाङ्नत्वादित्यादिकं स्वामूल्यम् । कृत्यर्थकधातुयोगइष्टसाधनत्वादिज्ञान विशेष्यताप्रयोज्यसाध्यताख्यविषयताविशेष एव कर्मत्वं द्वितीयादेर र्थः, न तु विषयतामात्रम् । यत्रे घटं करोतीति प्रयुज्यते तुत्र कूपाल करोति जलाहरणं करोतीत्याद्यप्रयोगात् । अथ कॉशीन कट करोति काष्ठ भस्म करोतीत्यत्र काशकाष्ठादिपदोत्तरद्वितीयानुपपत्तिः। तत्र कृतिनिरूपि'तोक्तविषयताविरहादिति चेदुपादानीयविलक्षणविषयतापि द्वितीयार्थः । सा च द्वितीयान्तरोपस्थाप्यसाध्यीयविषयता विशिष्टायामेव कृतावन्वेति । अतः कटादिरूपकर्मान्तरासमभिव्याहारेण काशान करोतीत्यादयो न प्रयोगाः। अथैवमपि काष्ठं भस्म करोति दुग्धं
'स इव जानाति स इव पठतीत्यादौ । २ कर्मणो धात्वर्थेनोपसङ्ग्रहादकर्मकत्वमिति भावः ।