SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ May दधि करोतीत्यादौ काष्ठदुग्धादेः कर्मत्वानुपपत्तिः। तस्य भस्मदध्याधुपादानताविरहात्। काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमाणुभिर्भस्मदध्याद्यारम्भादुत्पत्त्याश्रयस्यैवोपादानत्वात् । विभिन्नकालीनयोश्वाधाराधेयभावविरहात् कारणस्यैवोपादानत्वमिति नियमाच्च । नच परिणामवादविद्वेषिणां नैयायिकानां काष्ठादेर्भस्मादिरूपद्रव्यान्तरकारणत्वमपि तु प्रतिबन्धकत्वमेव द्रव्यवतिद्रव्यान्तरानुत्पत्तेरिति चेन्न। कर्म हि त्रिविधं भवति–प्राप्यं प्रकृतिविकृती च । तत्र प्राप्यं कर्म क्रियाजन्यफलशालि गम्यादेामादि, ज्ञानादेविषयश्च क्रियानिष्पाद्यं यत्तद्विकृतिरूपम् । यथा पाकादेरोदनादि यथा वा कृतेर्माल्यादि कटादि च । प्रथमे तण्डुलादिरूपं पूर्वद्रव्यं विनाश्यौदनादेनिवर्तनम् । द्वितीये पुष्पादिरूपं पूर्वद्रव्यमविनाश्यैव संदर्भादिरूपविशेषणनिष्पादनेन विशिष्टस्य माल्यादेर्निर्वर्तनम् । तृतीये च काशादिरूपपूर्वधर्मिणमविनाश्य तत्रैव कटादिरूपधर्मिनिष्पादनं क्रियया। ईदृशं च तत्र कर्म प्रकृतेरसमभिव्याहारस्थलेऽपि निवर्त्यमुच्यते । तण्डुलानोदनं पचति, कुसुमानि नजं करोति, काशान् कटं करोतीत्यादौ प्रकृतिसमभिव्याहारस्थलेऽपि निर्वय॑ते निष्पाद्यते यदिति व्युत्पत्त्या, यद्यप्योदनादेरपि निर्वय॑तास्ति तथापि तव्यावृत्तमेव पारिभाषिकं निर्वय॑त्वम् । तदुक्तमभियुक्तै: "सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रिीयते तस्य निर्वय॑त्वं प्रचक्षत" इति । यस्य विकृतिकर्मणो नाश्रियते न प्रयुज्यत इत्यर्थः। एवं च तत्र तत्रौदनादेर्विकार्यकर्मण्येवान्तर्भावः । तदुर "क्रियाकृतविशेषाणां सिद्धिर्यत्र न दृश्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy