SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] जयाऽलङ्कृतः २३३ प्रयोगाप्रसङ्गात् कृदन्तकर्मत्वविवक्षायां तु षष्ठया बाधाद् द्वितीयाया अप्रसक्तेश्च । न च धात्ववयवकृद्योगे कर्तकर्मणोः कृतीत्यस्य द्वितीयाबाधकत्वे कंसकर्मकवधमाचष्टे कंसं घातयतीत्यत्र द्वितीया न स्यात् । कंसस्याख्यानकर्मत्वायोगेन वधकर्मतयैव तदुत्तरं द्वितीयासमर्थनादिति वाच्यम् । कृदन्तोत्तरं यत्राख्यातार्थे णिच् तत्र प्रकृतिवच्च कारकमित्यनेन कृदन्तकारकस्य ण्यन्त तत्प्रकृतिप्रतिपाद्यक्रियाकारकतुल्यत्वातिदेशात् राजानं गमयति सूर्यमुद्गमयतीत्यादौ ण्यन्तधातुयोगे यथा प्रकृत्यर्थक्रियाकर्तुः कर्मत्वं तथा कृदन्तोत्तरणिच्प्रत्यययोगेऽपीत्याख्येयगत्युद्गत्यादिकर्तुः कर्मतया तदुत्तरं द्वितीयेति । ण्यन्तधातुयोगे यथा प्रकृतेः कर्मणो द्वितीयान्तता तथा णिच्प्रत्ययान्तकृदन्तकमणोऽपीति लाभात् कृदन्तकर्मण: कंसादेर्द्वितीयान्ततोपपत्तिः । तथा' विवक्षायां तण्डुलस्य पाकीयतीति प्रयोग इष्यत एव । कारकविभक्तयर्थस्य वृत्त्येकदेशेनाप्यन्वयस्य व्युत्पन्नत्वात् । सम्बन्धविवक्षायां च न तथा प्रयोगः। वस्तुतः संवन्धविवक्षायामपि तथा प्रयोग इष्यत एव । न च तत्र वृत्त्येकदेशेन षष्ठयान्वये प्रतियोगिम्पदादन्यद्यदन्यत्कारकादपीविन्युपतिविरोध इति वाच्यम् । तादृशव्युत्पत्तेरभेदान्वयस्थल एव स्वीकारात् । वृत्त्येकदेशेन भेदान्वये बाधकाभावात् । अत एव ऋद्धस्य राजमातङ्गा इत्यादिप्रयोगो नेष्यते । इष्यते च पितुः स्वर्ग 'ण्यन्तेति । यथा कसं घातयतीत्यादौ कृतप्रकृतिण्यन्तहननिरूपितकर्मकत्वं कंसस्यास्तीति कृदन्तनिरूपितकर्मत्वमपि तस्यैवेति भावः । तथेति । धावस्यकाकादिकृदन्तार्थान्वयविवक्षम्यामित्यर्थ । अन्यदित्यादि । तस्य वृत्त्येकदेशेनान्वयो न भवतीत्यर्थः । .. * पितुरित्यादि । पितृसम्बन्धिसुखकाम इत्यर्थः। ..
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy