SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३२ व्युत्पत्तिवादः [ कारके क्रियायां तदन्वयो न साधीयान् । इच्छान्तर समानकर्तृकत्वमादाय दर्शितस्थलेऽतिप्रसङ्गतादवस्थ्यात् । स्वसमानकर्तृकत्वस्य वाच्यत्वे तत्तदिच्छारूपस्वपदार्थानामननुगमेन व्युत्पत्त्यनुपपत्तिः । न च समानकर्तृकत्वस्य सम्बन्धत्वोपगमे तत्र शक्तिग्राहकानुशासनविरोधः। यतो धातोः कर्मणः समानकर्तृकादिच्छायां वेतिसन्प्रत्ययविधायकसूत्रं सनः समानकर्तकत्वार्थकतां न प्रतिपादयति । तस्य हीच्छाकर्मत्वेन तत्समानकर्तृकत्वेन च स्वार्थपराद्धातोरिच्छारूपार्थे सन्प्रत्ययो भवतीत्येवार्थः । इच्छाधात्वर्थयोः संसर्गतया समानकर्तकत्वविवक्षायामपि समानकर्तकत्वोपरक्तार्थपरत्वं धातोनिर्वहतीति इच्छामात्रे शक्तिग्राहकं तत्सूत्रमिति । सुबन्तोत्तरेच्छार्थविहितक्यच्काम्यजन्तस्य धातोरिच्छार्थकतया सन्प्रत्ययान्ताविशेषेऽपि सन्नन्तधातुवन्न सकर्मकता । तदन्तर्गतप्रातिपदिकस्यैव कर्मबोधकतयेच्छायाः कर्माकाङ्क्षाविरहात् । न-च-पुत्रीयति पुत्रकाम्यतीत्यादौ क्यजादिप्रकृत्यर्थपुत्रादेः क्रियात्वाभावेनाकर्मकत्वेऽपि आत्मनः पाकमिच्छति पाकीयतीत्यादौ प्रकृत्यर्थपाकादेः सकर्मकतया सन्नन्तसमुदायवत् क्यजन्तपाकादिसमुदायम्य सकर्मकताया दुर्वारतया तण्डुलं पाकीयतीत्यादिप्रयोगापत्तिरिति वाच्यम्। कृधातुसमानार्थकयतेरिव सन्नन्तसमानार्थकस्य क्यजन्तादेरपि कर्मबोधकसुप्साकाङ्क्षत्वानुपगमेन तथा 'इच्छान्तरेति । अयम्भावः । यदा चैत्रस्यौदनभोजनो भवत्वितीच्छा मैत्रवृत्तिरस्ति चैत्रस्य पाककृतिर्भवत्वितीच्छाऽस्ति तदा चैत्रवृत्तेरिच्छासमानकर्तृकत्वमप्यबाधितमेव इति मैत्रो बुभुक्षति इत्यादिप्रयोगो दुर्वार एवेति । ___ वाच्यत्वे इति । सन् प्रत्ययवाच्यत्वे इत्यर्थः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy