SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] जयाऽलङ्कृतः २३१ व्यक्तिकर्मकभोजनमप्रसिद्धम् अथ च भोजनकर्मतया तदिष्टं तत्रायमोदनो बुभुक्ष्यत इत्यादेर्दर्शनादिविषयत्वेन गगनादिगोचरेच्छास्थले च गगनं दिदृक्षते इत्यादेश्च प्रयोगस्य नानुपपत्तिः । न वा ओदनादिरूपकर्ममात्रोपरागेण यत्र भोजनादीच्छा दैववशेन च तद्भोजनादिकं विषादिकर्मकमपि तत्र विषं बुभुक्ष्यते इत्यादयः प्रयोगाः। कर्तृप्रत्ययस्थले च तादृश'विषयतारूपं कर्मत्वमेव इच्छाविशेषणतया भासते न तु धात्वर्थकर्मत्वं धात्वर्थविशेषणतया । तत्पदार्थकर्मत्वविशिष्टभोजनादिनिरूपितविषयिताया नियमत इ. च्छायां भानोपगमेनोक्तस्थले विषं बुभुक्षते चैत्र इत्यादिप्रयोगवारणेऽपि गगनं दिदृक्षते चैत्र इत्यादिप्रयोगस्य दुरुपपादत्वात्। ___ इदन्तु बोध्यम् । सन्प्रतिपाद्येच्छायां धात्वर्थकृतिभोजनादेः केवलविशेष्यतासम्बन्धेन न विशेषणत्वम् । तथा सति परकर्तृककृतिभोजनादिगोचरेच्छावति अयं चिकीर्षति बुभुक्षत इति प्रयोगप्रसङ्गात्, किन्तु विशेष्यितासमानकर्तृकत्वोभयसम्बन्धेनैव उक्तातिप्रसङ्गवारणाय इच्छासमानकर्तृकत्वेऽपि सन्प्रत्ययवाच्यतां स्वीकृत्य 'तादृशेत्यादि । धात्वर्थकर्मत्वनिष्ठविषयतानिरूपितेच्छीयविषयतारूपमेवेत्यर्थः । तथावबोधः भोजनादिकर्मत्वनिष्ठविषयतानिरूपितेच्छीय अोदनादिनिष्ठविषयतानिरूपितविषयितावदिच्छावानिति । तदिति । द्वितीयाप्रकृत्यर्थः । दुरुपयादत्वादिति । अत्र गगनवृत्तिकर्मतानिरूपकदर्शनाप्रसिद्धेरिति भावः । अपोति । अपिशब्दादिच्छायामपीत्यर्थः । तथा च पाकादिनिष्ठकर्मत्वनिरूपिका या इच्छासमानकर्तृककृत्यादिविशेष्यिका इच्छा तद्वानिति बोध इत्युक्तस्थले न दोष इति भावः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy