SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ [ कारके २३० व्युत्पत्तिवादः परम्परया विशेष्यान्वयिसोमक्रयव्यक्तेः परम्परया विशेषणान्वयिव्यक्त्यभेदवत् प्रकृतेऽपि परम्परयोभयान्वयिकर्मव्यक्त्यभेदोऽक्षत एवेत्युच्यते तदा भोजनकृतिर्भवतु पाकश्च भवतु इति समूहालम्बनेच्छामादाय पाकश्चिकीयते इति प्रयोगस्य कालान्तरीयकृतिविषयतामादाय दुरितैव । विषयितासम्बन्धेनेच्छाविशेषणीभूतकृतिव्यक्तिकर्मत्वान्वयस्यैव तदिच्छान्वयिनि कर्मण्यन्वयानायमतिप्रसङ्ग इति चेत्तथापि तदिच्छाकाले पाक इदानीं न चिकीर्ण्यते इति प्रयोगानुपपत्तिः। अन्वयितावच्छेदककृतिविषयतात्वकृतिगोचरवर्त्तमानेच्छाविषयतात्वावच्छिन्नाभावयोस्तदा पाकेऽसम्भवात् । न च वर्तमानकालावच्छिन्नकृतिविषयतात्वावच्छिन्नाभाव एव तत्र प्रतीयते, स च पाकेऽबाधित इति वाच्यम् । यद्यतीतेच्छाधीनपाककृतिरपि तत्र वर्त्तते तदा तादृशाभावस्यापि तत्र बाधात् पाककृतीच्छायामसत्यामुक्तेच्छासत्त्वेऽपि च तथा प्रयोगात् । कृत्यसत्त्वेऽपि पाककृतीच्छासत्त्वे तथा प्रयोगविरहात् । कृतिविषयत्वाभावमात्रबोधस्य तत्राभ्युपगमासंभवाच्चेति । कर्मप्रत्ययस्थले इच्छाधात्वर्थविशेषणमेव । इदन्तु तत्त्वम् । कर्मप्रत्ययस्थलेऽपि धात्वर्थविशेषितैवेच्छा सन्प्रत्ययेन प्रत्याय्यते। तत्कर्मत्वमेव कर्माख्यातार्थः । तच्च धात्वर्थकर्मतया तद्विषयत्वम् । श्रोदनकर्मक भोजनं भवतु, पाकविषयककृतिर्भवतु इत्यादीच्छायां च पाकभोजनादीनां तथेच्छाविषयतया तत्कर्मत्वमक्षतम् । गृहस्थितीच्छायां गृहादेः स्थित्याधारत्वादिनैव विषयत्वमिति न गृहादेस्तिष्ठासादिकर्मत्वम् । अत एव यदोदन- . 'प्रोदनकर्मकेत्यादि । धात्वर्थकर्मत्वनिष्ठविषयतानिरूपितचैत्रवृत्तीच्छीयविषयतावान् पाकादिरिति बोधः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy