SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] जयाऽलङ्कृतः २२६ तया भासमाने एव प्रत्ययार्थान्वयदर्शनात् , न तु स्वातन्त्र्येण भासमाने इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वान्वयोऽपि इच्छायां कर्मत्वानन्वयेन दुर्घटः । विशेष्यान्वयिन्येव विशेषणस्य पारतन्त्र्येणान्वयस्य विशिष्टान्वयस्थले व्युत्पत्तिसिद्धत्वात् न तु विशेष्यानान्वयिनि । अथास्तु विषयतारूपकर्मत्वे चिकीयते पाक इत्यादाविच्छायास्तत्पारतन्त्र्येण कृतेश्चान्वयः । एवञ्च कृतिविषयकेच्छाविषयत्वावच्छिन्नकृतिविषयताश्रयः पाक इत्यन्वयबोधः । उभयत्रैव पाकादेविषयत्वात् । स्थित्यादिकर्मत्वाप्रसिद्धया गृहं तिष्ठास्यते इत्यादेरप्रसङ्गादिति चेत् । अोदनो बुभुक्ष्यते इत्यादौ का गतिः । तत्रेच्छाकर्मताया विषयतारूपत्वात् भोजनादिकर्मतायाश्च तदन्यत्वात् । विशेष्यीभवदिच्छान्वयिनि कर्मत्वे भोजनाद्यन्वयायोग्यत्वेन तविशिष्टान्वयासंभवात्। वस्तुत: पाकश्चिकीर्ण्यत इत्यत्राप्यगतिरेव। कृतिविशेषणतया पाकनिष्ठेच्छाविषयतायाः कृत्यविशेषणतया तनिष्ठकृतिविषयताभिन्नतया इच्छान्वयिनो विषयत्वरूपकर्मत्वस्य कृत्यन्वयायोग्यत्वात्। यदि च विशेष्यान्वयिव्यक्तावेव तत्पारतन्त्र्येण विशेषणान्वय इति न नियमः अपि तु तदन्वयितावच्छेदकावच्छिन्न एवेति। तथा च विषयतात्वावच्छिन्नस्योभयान्वययोग्यतया न प्रकृतेऽन्वयानुपपत्तिः। अत एवारुणयेत्यादावारुण्यनिरूपितसाध्यताया गोनिरूपितसाध्यताभिन्नत्वेऽपि न तृतीयार्थे विशिष्टान्वयानुपपत्तिः। तत्र 'कृतिविशषेणतयेति । कृतिनिष्ठविशेष्यतानिरूपितविशेषणतारूपपाकनिष्ठेच्छाविषयतायाः कृतिनिष्ठविशेष्यतानिरूपितविशेषणताभिन्ना या कृतिनिरूपिता पाकनिष्ठा विषयता तद्भिन्नतयेत्यर्थः । अरुणयेति--अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातीतिवाक्ये ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy