SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२८ व्युत्पत्तिवादः [ कारके चिकीर्ण्यते पाक इत्यादौ इच्छाविशेषितकृत्यादेरेव सन्नन्तेन प्रतिपादनात् , तादृशकृत्यादिकर्मताया आत्मनेपदादिना प्रत्यायनसंभवात् । आख्याताद्युपस्थितवर्तमानत्वादेश्च कृत्यादिविषयकेच्छा यत्र प्रकृत्यर्थः यत्र वा इच्छा विषयकृतिस्तत्रोभयत्रैवेच्छायामन्वयः। प्रकृत्यर्थैकदेशेऽपि नीलतरो घट इत्यादिस्थले नीलरूपादौ तरबाद्यर्थातिशयान्वयानुरोधात् । न चैवं कर्मप्रत्ययस्थलेऽपि कृतिविशेषितैवेच्छा' सना प्रत्याय्यतां विशेषणीभवन्ती कृतिरेव कर्मत्वेनान्वीयतां भवन्मते विशेणीभूतेच्छायां वर्तमानत्वाद्यपराख्यातार्थान्वयवदिति वाच्यम् । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽन्वयोऽव्युत्पन्न इति प्रथमान्तार्थविशेषणकर्मत्वे इच्छायां विशेषणतयोपस्थितस्य धात्वर्थस्य विशेषणतयान्वयायोगात् । विशेष्यतया चान्वयस्याप्रसक्तत्वात् धात्वर्थविशेषणतया इच्छाभानेपि तस्या वर्तमानत्वादिविशेष्यतयैव भानेनोक्तव्युत्पत्तिविरोधविरहात्। एवं धात्वर्थस्येतरविशेषणतयोपस्थितस्य स्वातंत्र्येण कर्मताविशेषणत्वमयुक्तमेव । 'प्रकृत्यर्थस्यैकदेशेऽपि प्रकृत्यर्थान्तर्गत 'कृतिविशेष्यतयैवेच्छेति हस्तलिखितपुस्तकपाठः । २ अन्वीयतामिति । नन्वेवमाख्यातस्य प्रकृत्यर्थंकदेशान्वितकर्मत्वबोधकत्वेन प्रकृत्यान्वितस्वार्थबोधकत्वमेव प्रत्ययानामिति नियमानुपपत्तिरत आह-भवन्मते इत्यादि। ३ प्रकृत्यर्थस्येत्याद्यारभ्य स्वातन्त्र्येण भासमाने इत्यन्तस्य स्थानेऽस्मत्पितृव्यचरणमधुसूदनशगंमिश्राणां मते वक्ष्यमाणरीत्या पाठो युक्तः। तथा हि-नीलतरो घट इत्यादौ प्रकृत्यर्थंकदेशे प्रत्ययार्थान्वयदर्शनेऽपि प्रत्ययार्थे प्रकृत्यर्थंकदेशस्यान्वयादर्शनात् न स्वातन्त्र्येण भासमाने कर्मत्वरूपप्रत्ययार्थे प्रकृत्यर्थंकदेशस्य एकत्र विशेषणस्य कृत्यादेरन्वयः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy