SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०७ षष्ठी ] जयाऽलङ्कृतः सनस्य विधित्वमेव स्यात् । अत एव च "आमं शूद्रस्य पक्कान्नं पक्कमुच्छिष्टमुच्यत" इत्यत्र पकमित्यनुषज्यमानायाः षष्ठयाः संबन्धत्वेन कर्तृत्वमर्थः न तु स्वत्वम् । शूद्रकर्तृकवृषोत्सर्गे चरुहोमानुपपत्तेरिति नवीनस्मार्त्तानां मतमप्युपपद्यते । न च तत्र कृद्योगा षष्ठी कर्तृत्वत्वेनैव बोधयतीति वाच्यम् । निष्ठायोगे तस्या निषेधात् । अत एव "नाग्निस्तृप्यति काष्ठानां न पुंसां वामलोचना" इत्यादौ करणत्वादेः संबन्धत्वेन विवक्षया षष्ठयुपपत्तिः । तृतीयादिविधिविषयतया विशेषरूपेण करणत्वादिसंबन्धविवक्षायां षष्ठयनुपपत्तेः । अथ संबन्धत्वेन संम्बन्धस्य षष्ठीवाच्यत्वे पुरुषस्य दण्ड इत्यादौ दण्डस्य पुरुष इत्यादिरपि प्रयोगः स्यात् । दण्डी पुरुषो रूपवान् घट इत्यादिवढ्ण्ड रूपादेः पुरुषघटाद्यनाधारत्वेऽपि पुरुषी दण्डो घटवदूपमित्यादिः प्रयोगो दुर्वारः, तदत्रास्तीत्यर्थ इव तदस्येत्यर्थे मतुपो विधानात् । दण्डरूपादिपदोत्तरषष्ठया चैत्रघटादिनिष्ठतदर्थसंबन्धप्रतिपादने तदुत्तरमत्वर्थीयस्य प्रसंगादिति चेत् । विशिष्य केषांचित्संबन्धानां षष्ठयर्थतोपगमेऽपि घटस्य रूपमित्यादिप्रयोगानुरोधेन समवेतत्वादेः षष्ठयर्थताया आवश्यकत्वेन हस्तस्य चैत्रः, चैत्रवान् हस्तः, शाखाया वृक्षः, वृक्षवती शाखेति कथं न प्रयुज्यते, पूर्वप्रयोगाभावादिति चेत्तुल्यम् । नराणां क्षत्रियः शूरो नरेषु वा, अध्वगानां रथगामिनः शीव्रतरा अध्वगेषु वा, गवां कृष्णा संपन्नक्षीरा गोषु वेत्यादौ यतश्च निर्धारणमित्यनेन षष्ठीसप्तम्यौ विधीयते । तदर्थश्च जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य ताहशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनं तद्धर्मावच्छिन्नार्थकपदात्षष्ठीसप्तम्याविति । प्रकृते च क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छून्यनरादिव्यावृत्तत्वेन शौर्यविशेपादिरूपविधेयसंबन्धोऽभिमत इति नरादिपदात्षष्ठी । नरेभ्यो राक्षसाः शूरतमा इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तच्छून्यनरा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy