________________
३०८ व्युत्पत्तिवादः
[ कारके दिव्यावृत्तशूरतमत्वविवक्षायामपि न निरुक्तनिर्धारणं राक्षसत्वादिविशिष्टस्य नरत्वादिसामान्यधर्मानवच्छिन्नत्वात्। नराणां क्षत्रियः शूरतम इत्यादौ क्षत्रियादिनिष्ठशूरतमत्वादौ नरादिसामान्यव्यावृत्तत्वबाधात् शून्यत्वान्तं व्यावृत्त्यवधेविशेषणम् । तद्धर्माश्रययत्किंचिद्वयावृत्तत्वविवक्षणे द्रव्येषु घटो गन्धवानित्यपि स्यात्। गन्धादेर्यत्किचिद्रव्यव्यक्तिव्यावृत्तत्वात्। तादृशविशेषणशून्यसामान्यव्यावृत्तत्वनिवेशे नराणां क्षत्रियः शूरतम इत्यादावेव तदसंभवः । शूरतमत्वादेः क्षत्रियत्वादिशून्यराक्षसाद्यव्यावृत्तत्वादतस्तद्धर्मावच्छिन्नेति। अथ विधेये जात्यादिविशेषणशून्यसाधारणधर्मावच्छिन्नान्वितं व्यावृत्तत्वं साधारणधर्मावच्छिन्नवाचकपदोत्तरषष्ठयादेरेवार्थोवाच्यः। तावता च नरत्वादिरूपसाधारणधर्मावच्छिन्नवृत्तत्वस्यैव लाभः संभवति । न तु क्षत्रियत्वादिशून्यत्वविशेषितनरादिव्यावृत्तत्वस्य प्रकृत्यर्थे नरादौ तादृशविशेषणशून्यत्वबोधकाभावात्। न च षष्ठया एव तदर्थः,शक्त्यानन्त्यप्रसङ्गात् । न च भेद एव पष्ठयर्थः। तत्र च क्षत्रियादिपदार्थस्य प्रतियोगित्वेनान्वयात् क्षत्रियान्यनरादिव्यावृत्तत्वलाभः शक्तिभेदं विनैवेति वाच्यम् । एवमपि संख्यातिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमिति व्युत्पत्तिविरोधापरिहारात् । नरेषु क्षत्रियाणामेव शौर्यमित्यादौ क्षत्रियादेविभक्त्यर्थविशेषणतयोपस्थितस्य भेदे विशेषणतया भानोपगमे व्युत्पत्त्यन्तरविरोधाच्च । अस्तु लक्षणया नरादिपदादेव क्षत्रियान्यनरत्वादिविशेषरूपेणोपस्थितिरिति चेत् । अस्तु । व्यावृत्तत्वं किं तावत् कुत्र वा तदन्वयः। व्यावृत्तत्वं तदवृत्तित्वम्। शूरतमादिपदोपस्थापिते धर्मे तदन्वय इति चेन्न । पदार्थतावच्छेदकेन पदार्थान्तरानन्वयात् । पदार्थानां जातिमति सत्तेत्यादौ जातिमदन्यपदार्थवृत्तित्वसामान्याभावस्य सत्तादौ बाधितत्वान् । तादृशपदार्थसमवेतत्वाद्यभावस्य चाप्रसिद्धावृत्तिबोधासंभवाच्च । एवं द्रव्येषु