SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ षष्ठी ] कम्बुग्रीवादिमान् बट इत्यादौ घटत्वादिधर्मस्यान्वयितावच्छेदकरूपेणानुपस्थितत्वात्तत्र व्यावृत्तत्वान्वयबोधो दुर्घट इति । अत्र केचित् नराणां क्षत्रियः शूर इत्यादौ क्षत्रिय इव लक्षणया क्षत्रियान्योऽपि क्षत्रियपदार्थः । शूरपदस्यापि शूर इव तदन्योऽप्यर्थः पचर्थोऽभेदः क्षत्रिये तदन्यस्मिंश्चान्वेति । तथा च नराभिन्नः क्षत्रियः शूरो, नराभिन्नक्षत्रियान्यो न शूर इत्यर्थः । नराणां क्षत्रियेषु शौर्यमित्यत्रापि क्षत्रियपदं प्राग्वदुभयार्थकम् । शौर्यपदं च तत्तदत्यन्ताभावार्थकम् । तथा च नराभिन्नक्षत्रिये शौर्यं तदन्यस्मिंस्तदभावः इति बोध: । उद्देश्यविधेययोर्यादृशसंबन्धों भावान्वयबोधे भासते तत्संबन्धावच्छिन्नविधेयाभावः उद्देश्यवाचकविधेयवाचकपदयोर्वैय्यधिकरण्यस्थले विधेयपदलक्ष्यार्थः । तयोः सामानाधिकरण्यस्थले तु विधेयधर्मिभिन्न इति सामान्यतो व्युत्पत्तिरित्याहुः । तन्न । तथासति तस्मै पुरुषोत्तमाय नम इत्यत्र तत्पदार्थतदन्ययोरेव पुरुष - पदार्थाभेदविवक्षणे उत्तमपदेनासामर्थ्यात्समासाप्रसक्तेर्न निर्द्धारणइति निषेधाश्रयणेन प्रकाशकृतां षष्ठीसमासखण्डनानौचित्यप्रसङ्गात् । एवं नरेषु शूरस्य क्षत्रियस्येदं राज्यमित्यादौ शूरपदार्थाशूरान्वित क्षत्रियपदार्थक्षत्रियान्यस्य षष्ठयर्थसंबन्धादौ नान्वयः, किंतु शूरान्वयिक्षत्रियादेरन्वय इत्येतन्नोपपद्यते । श्वेतं सैन्धवं भुङ्क्त इत्यादौ कर्मतादिविशेषणतया लवणादिबुद्धौ मुख्यविशेष्यतयाऽ जयाऽलङ्कृतः ३०६ श्वादेरभानादेकपदोपस्थापितयोर्द्वयोस्तत्प्रकृतिकविभत्तयर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतया भानस्याव्युत्पन्नत्वात् । एवं द्रव्येषु क्षितिपाथसी रसवती इत्यादौ क्षितिजलोभयत्वाद्यवच्छिन्नभिन्ने रसवदाद्यन्यत्ववोधो न संभवति । रसादिमत्यपि प्रत्येकमुभयत्वावच्छिन्नभेदसत्त्वात् । नापि प्रत्येकभेदावछिन्ने तथैव बाधात् । नाप्येकभेदविशिष्टापर भेदावच्छिन्ने एकपदस्य तादृशभेदावच्छिन्नलक्षकत्वे परपदार्थे रसवदाद्यन्यरूपविधेयानन्वयात् । द्वन्द्वघटकै
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy