________________
३१० व्युत्पत्तिवादः
[ कारके कपदार्थमात्रे विधेयान्वयस्याव्युत्पन्नत्वात् । नापि पदाभ्यां लक्षणया तत्तद्भिन्नोपस्थितौ अभेदेनैकभिन्नान्विते अपरभिन्ने तथापि पदार्थद्वये विधेयान्वयानुपपादनात् । द्वंद्वे समस्यमानपदार्थानां परस्परमनन्वयादित्यपि चिन्त्यम्।। ___ यत्तु नराणां शूरः क्षत्रिय इत्यादौ शूरत्वान्वयी अभेदः षष्ठ्यर्थः । नराभिन्नशूरत्वाद्यवच्छेदेन क्षत्रियाभेदाद्यन्वयः। एवं च क्षत्रियान्ये (?) नरेऽर्थतः शौर्यव्यवच्छेदलाभ इति । तदत्यन्तमसत् । नराणां क्षत्रिये शौर्यमित्यादौ क्षत्रियाणां कर्ण: प्रचुरं ददातीत्यादौ चानिर्वाहात् । ___ इदं तु तत्त्वम् । निर्धारणविभक्तेया॑वृत्तत्वमेवार्थः । व्यावृत्तत्वं चाभेदान्वयिविधेयसमभिव्याहारस्थलेऽन्योन्याभावप्रतियोगित्वम् । भेदान्वयिस्थले चात्यन्ताभावप्रतियोगित्वम् । तस्य च विधेयतावच्छेदकावच्छेदेनान्वयः। अतो न द्वित्वाद्यवच्छिन्नाभावमादायातिप्रसङ्गः । अभावे च प्रकृत्यर्थस्य नरादेः क्षत्रियत्वादिरूपोद्देश्यतावच्छेदकावच्छिन्नभेदविशिष्टप्रकृत्यर्थतावच्छेदकनरत्वादिव्यापकाधिकरणतानिरूपिताधेयतासंबन्धनान्वयः । एतावतैव जात्यादिरूपविशेषणशून्यप्रकृत्यर्थनरादिसामान्यव्यावृत्तेविधेयधर्मे लाभः । द्रव्याणां क्षितिपाथसी रसवती इत्यादौ भेदद्वयादिविशिष्टद्रव्यत्वादिव्यापकतैव संबन्धः। विधेयस्य शूरतमादेर्निर्धारणविभक्तिप्रकृत्यर्थतावच्छेदकनरत्वादिविशिष्टतादात्म्यादिरेव संबन्धतया भासते। अतो नराणां राक्षसः शूर इत्यादे पत्तिः । अन्यत्स्वयमूह्यम्।
इति महामहोपाध्यायश्रोगदाधरभट्टाचार्यविरचिते
व्युत्पत्तिवादे षष्ठोविवरणम् ।