________________
सप्तमी ]
जयाऽलङ्कृतः
३११
अथ सप्तमीविवरणम् आधारसप्तम्या आधेयत्वमर्थः । तस्य क्रियायामन्वयः। आधाराधेयभावश्च न संयोगादिरूपसंबन्धात्मकः । कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् । अपि तु पदार्थान्तरमेव । स च संबन्धविशेषावच्छिन्नः संयोगेनाधिकरणं समवायेनाधिकरणमित्यादिव्यवहारात् । अथ वोक्ताऽतिप्रसङ्गभिया संयोगेनाधारत्वमेवातिरिक्तम् । समवायसंबन्धावच्छिन्नं च समवायादिरूपमेव। न च समवायस्य संबन्धत्वेन द्विष्ठतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः। तथा सति तुल्ययुक्तयाधिकरणत्वस्यापि द्विष्ठतया तादृशातिप्रसङ्गस्य दुर्वारत्वात् । यदि चाधारताया आधारेऽनुयोगित्वं संबन्धः अाधेये च प्रतियोगित्वमिति संबन्धवैलक्षण्यानातिप्रसङ्गः, आधारतानुयोगिताया एवाधारव्यवहारप्रयोजकत्वादित्युच्यते, तदा समवायस्यापि तद्वैलक्षण्येनातिप्रसङ्गवारणादतिरिक्ताधारतायां मानाभावात्। स्पोद्याधारवाय्वादेः रूपाद्याधारतावारणायाधेयभेदेनाधारत्वमतिरिक्तमिति न सत् । प्राधेयभेद भिन्नाधिकरणतानामतिरिक्तसमवायस्य च कल्पनामपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगन्तुमुचितत्वात् । अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु । कुण्डबदरादिसंयोगानां कुण्डादिकमनुयोगि न तु बदरादिकमिति नातिप्रसङ्गः। न चैवमपि कुण्डादेः कुण्डादिनिष्ठसंयोगानुयोगितायाः कुण्डाधारतापत्तिः। तादृशसंयोगस्य कुण्डादिनिष्ठत्वेऽपि तत्प्रतियोगिकत्वानुपगमात्तत्प्रतियोगिकसंवन्धानुयोगिताया एव तदाधारव्यवहारप्रयोजकत्वात्। न चासौ संयोगो बदरादौ कुण्डविशिष्टबुद्धिप्रयोजकतयोभयानुयोगिक एक एवमुभयप्रतियोगिकोऽपीति वाच्यम् । आधेये संयोगेनाधिकरणविशिष्टबुद्धेरप्रामाणिकत्वात् , कुण्डे वदरमित्यादिविशिष्टबुद्धौ संयोगप्रतियोगिताया एव संबन्ध