________________
३१२
व्युत्पत्तिवादः
[ कारके त्वात् । पटे रूपमित्यादौ समवायप्रतियोगितावत् । अन्यथा तादृशविशिष्टबुद्धिबलाद्रपादावपि घटादिसमवायानुयोगिताप्रङ्गादिति चेन्माभूत्तत्संबन्धावच्छिन्नाधारत्वमप्यतिरिक्तम् । ___ यत्तु तत्पतनप्रतिवन्धकसंयोगवत्त्वं तदाधारत्वं कुण्डादिपतनप्रतिबन्धकसंयोगवत्त्वं च न बदरादौ, तत्संयोगसत्त्वेऽपि तस्य पतनादिति तदसत्। यस्य पतनमप्रसिद्धं तदाधारत्वासंग्रहात् । स्वस्मिन्स्वपतनप्रतिबन्धकसंयोगसत्त्वेन स्वस्यापि स्वाधारताप्रसगाच । स्वान्यत्वे सति स्वनिष्ठपंतनानुत्पादकप्रयोजकसंयोगवत्त्वं तदिति चेन्न । एतदनुपस्थितावप्यधिकरणव्यवहारादित्यलम् । अथाधारसप्तम्या आधेयतार्थकत्वे भूतले वर्तते घट इत्यादौ धात्वर्थस्य वृत्तेराधेयतारूपत्वेन तत्र भूतलाद्याधेयत्वाभावेनायोग्यताप्रसङ्ग इति चेन्न । तत्र . निरूपकत्वस्यैवाधारतारूपत्वेन निरूप्यत्वस्यैव सप्तम्यर्थत्वात् । भूतलादिनिरूप्यत्वस्य च घटादिनिष्ठवृत्तावबाधात् । अत एव 'इतिहेतुस्तदुद्भव'इत्यादौ हेतौ हेतुतायां चोद्भवपदार्थोत्पत्तिवृत्तित्वाभावेऽपि हेतुतायामुत्पत्तिनिरूपितत्वसत्त्वेन सप्तम्युपपत्तिः । अथ वा वृद्धातोरपि आधारत्वमेवार्थस्तन्निरूपकत्वमेव घटादेस्तत्कतत्वम् । एवं च तादृशधात्वर्थे भूतलाद्यधिकरणकत्वमेव सप्तम्यन्तेन बोध्यते। तत्र तदबाधात् । अथाधारसप्तम्या क्रियायां प्रकृत्यर्थाधिकरणकत्वं यदि बोध्यते तदा चैत्रे चैत्रो गच्छतीत्यादि प्रयोगापत्तिः। तत्र धात्वर्थस्य स्पन्दादेः कादिवृत्तित्वात् । भुवि गच्छतीत्यादिश्च न स्यात् । चैत्रनिष्ठक्रियाया भुवि बाधादिति चेन्न। तत्र कर्तघटितपरम्परासंबन्धावच्छिन्नाधारताया एव सप्तम्यर्थत्वेन सर्वसामञ्जस्यात् । परम्परासंबन्धस्यापि प्रतीतिबलेन कचिदाधारतानियामकत्वोपगमात्। ___अवच्छेद्यताविशेषोऽप्याधारसप्तम्यर्थः । यथा वीणायां शब्दः, कर्णे शब्दः, वृक्षाग्रे कपिसंयोग इत्यादौ । एषु कारकतानिहाय