________________
व्युत्पत्तिवादः
[ कारके वैचित्र्यादेकपदस्य स्वीक्रियते । भोजनकृत्यधिकरणैतदिवसानन्तरद्वयहानन्तरदिनवृत्तिभोजनकृतिमानयमित्याकारकबोधश्चरमस्थले । कारकपदेन क्रियानुकूलव्यापाररूपकारकपदार्थतावच्छेदकस्यापि विवक्षितत्वात् । एकक्रियानुकूलकृत्यन्वयिनः प्रकृत्यर्थाधिकरणकालानन्तरकालीनत्वस्य प्रकृत्यर्थविशेषणीभवदपरक्रियानुकूलकृत्यधिकरणकालानन्तर्यस्य बोधकत्वेऽपि पञ्चम्युपपत्तिः । कारकद्वयमध्यवर्तिताचात्र कालस्य नोपपद्यते कर्तुरैक्यात् । अत एवोक्तम्-कर्तृशक्त्योमध्ये चैकः काल इति ॥ इति महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचिते
व्युत्पत्तिवादे पञ्चमोविवरणम् ।
अथ षष्ठीविवरणम् संबन्धविवक्षायां कारकविभक्त्यप्रसक्तेः शेष षष्टीत्यनेन चैत्रस्येदमित्यादौ षष्ठी। चैत्रस्य द्रव्यमित्यादौ स्वत्वस्य, चैत्रस्य स्वं, घटस्य कारणं, चैत्रस्य हस्तः, इत्यादौ निरूपितत्वावयवत्वादीनां संबन्धत्वेनैव षष्ठ्यर्थता न तु विशिष्य शक्त्यानन्त्यप्रसङ्गात् । संयोगादिसंबन्धसत्त्वेऽपि चैत्रस्य नेदं वास इत्यादौ स्वत्वादिसंबन्धविशेषबोधतात्पर्येण यत्र नञ् प्रयुज्यते तत्र विशेषरूपेण षष्ठ्या लक्षणैव । विभक्तौ न लक्षणेति प्रवादस्यानुशासनासत्त्वे एक विभक्त्यर्थेऽपरविभक्तेन लक्षणेत्येतत्परत्वात् । अत एव च कृद्योगापि हि षष्ठी संबन्धत्वेनैव बोधयतीति मिश्राः । इत्थमेव च संवन्धत्वेन कर्मत्वादिविवक्षया मातुः स्मृतमित्यादावधीगर्थेत्यनुशासनस्य नियमपरतया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते। संबन्धत्वविशिष्टसंबन्धविवक्षायां शेषे षष्ठीत्यस्य षष्ठयविधायकत्वे तादृशानुशा