________________
अथात्र व्याप्तियापकसामानाधिकरण्यरूपैव वाच्या न तु तद्वदन्यावृत्तित्वरूपा, केवलान्वयिधर्मस्य प्रकृत्यर्थतावच्छेदकता यत्र तत्राप्रसिद्धेः । एवं चोद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्त्यपेक्षया लघोः स्वव्यापकतादृशधर्मवत्त्वस्यैव सम्बन्धत्वमुचितमिति चेत्तर्हि आकाशो न द्वावित्यादिवाक्यजन्यशाब्दबोधदशायामपि आकाशावित्यादिवाक्याद्वित्वबोधापत्तिः । तथा हि आकाशो न द्वावित्यादितो द्वित्वावच्छिन्नभेदः प्रतीयते । स च न स्वव्यापकाकाशत्ववत्त्वादिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकः । तादृशसम्बन्धेन द्वित्वक्तोऽप्रसिद्धेः । अपि तु पर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताक एव । तत्काले च पर्याप्तिसम्बन्धेन द्वित्वविशिष्टबुद्धिरेव प्रतिबध्यते न तूक्तपरंपरासम्बन्धेन तद्विशिष्टबुद्धिरपीति । अथाकाशो न द्वावित्यादौ केवलपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगिताकछेदकताकभेदो (यत्र नबा बोधयितुं न शक्यते । आकाशेऽप्युक्तरयुक्तथा द्वित्वपर्याप्तेः सत्त्वेन तत्र तेन सम्बन्धेन तद्वद्भेदस्य वक्तुमशक्यत्वात्। आकाशत्वव्याप्यपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वादिमद्भेदश्वाप्रसिद्ध एवेति चेत्-न । द्वित्वादिपर्याप्तेरुभयादिवृत्तिधर्मेणैवावच्छेदात। तदनवच्छेदकैकमात्रवृत्तिधर्मावच्छेदेन तद्वद्भदेस्य तेन सम्बन्धन द्वित्वादिमद्भेदस्य? च तद्वति वृत्तौ बांधकाभावात्। न चैवं घटपटौ न द्वाविति प्रयोग
आपद्येत । घटपटयोरपि प्रत्येकं द्वित्वावच्छिन्नभेदसत्त्वादिति वाच्यम्। द्विवचनाद्युपस्थापितद्वित्वावच्छेदेनैव द्वित्वावच्छिन्नभेदस्य बाधेन तादृशप्रयोगाभावोपपत्तेः। नया व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताको दृश्योद्देश्यतावच्छेदकावच्छेद्वेनैव, बोध्यत इति व्युत्पत्तेद्वित्वसामानाधिकरण्येन तंदवाधस्याकिचित्करत्वात् । न च. १ घटत्वादेरतिप्रसक्ततया द्वित्वादिपर्याप्तेरनवच्छेदकत्वात्तदवच्छेदेन
41AMITA.