________________
संसर्गतोपगमात् । आकाशत्वादिव्याप्यताया द्वित्वादिप्रर्याप्तावसत्त्वेनातिप्रसङ्गविरहात् ।
वैशिष्टय" च वैज्ञानिकं न तु वास्तवम् । तेन यत्र योग्यताभ्रमजन्यः अत्राकाशावित्यादिवाक्यजन्यद्वित्वादिप्रकारकाकाशबोधस्तत्र विशिष्टसंसर्गाप्रसिद्धावपि न क्षतिः । द्वित्वादिपर्याप्तावन्यत्र प्रसिद्धस्याकाशत्वादिव्याप्यत्वस्य भ्रान्तेस्तत्रोपगमात् । सम्बन्धताच्छेदकांशे पुकारतायां भ्रमस्य सर्वानुभवसिद्धत्वेऽपि व्याप्यत्वांशे) भ्रमत्वस्यान्यत्रोपपादितत्वात् । नच प्रकृत्यर्थतावच्छेदक एव व्यापकतासम्बन्धेन द्वित्वान्वयधीः किं नोपेयते इति वाच्यम् । घटोवित्यादौ घटत्वादीनां स्वरूपत एवोपस्थिततया तत्रोक्तान्वयबोधस्यासम्भवात् । स्क्व्यापकीभूतोद्देश्यतावच्छेदकवत्त्वरूपपरम्पराया एव प्रकृत्यर्थे द्वित्वादेः सम्बन्धतास्वीकारे च व्यापकतारूपसम्बन्धतावच्छेदकांशे' भ्रमत्वस्यावश्यकतया उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः सम्बन्धतोपेक्षायां नि:जत्वात् ।
'वैशिष्टयमिति सक्योजायमानशाब्दबोधायाँ "याँ"पी" प्तिनिष्ठा सांसर्गिकी विशेष्यताख्या विषयता सा उद्देश्यतावच्छेदकव्याप्यत्वनिष्ठविशेषणताख्यविषयतानिरूपितापेक्षितेति भावः। एतेन भ्रान्तपुरुषीयवैज्ञानिकवैशिष्ट्यमादायाभ्रान्तस्य न शाब्दबोधापत्तिः जायमानशाब्दबोधनिरूपितसांसर्गिकी विषयतायास्तादृशविषयता नरूपितत्वाभावादिति विमर्शः।
सम्बन्धतावच्छेदकांश इत्यादि । सम्बन्चतावच्छेदकांशस्य प्रकारतयोपस्थितत्वाभावेऽपि तद्व्यापकीभूतविशेषणत्वेनोपस्थितेः अतद्वति तत्प्रकारकरूपज्ञानस्याभावेऽपि अतद्वति तद्विशेषणकज्ञानस्य सत्त्वात् तस्यापि भ्रमत्वाङ्गीकारादिति भावः । एतच्च विषयतावादेऽप्युपपादितमिति ।