SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः १५५ इति सर्वानुमतः पन्थाः परिष्कर्तुं शक्यते । अन्यथाऽनन्तधातुजन्यप्रकर्षादिविशिष्टतत्तत्स्वार्थोपस्थितीनां शाब्दधीजनकतामपेक्ष्य कतिपयोपसर्गाधीनप्रकर्षाद्युपस्थितीनां तज्जनकताकल्पने लाघवात्। स्वादीनामिव प्रादीनामपि वाचकता निराबाधा सिद्धयोति । संख्यायाम प्रकव्यर्थे पर्याप्तिसम्बन्धेनैव' विशेषणत्वं न तु समवायादिना। तथा सति एकव्यक्तिमात्रबोधपरादाकाशशब्दादपि द्विवचनबहुवचनाद्यापत्तेः। तत्तदर्थयोर्द्वित्वबहुत्वयोः समवायादिना आकाशाद्यन्वययोग्यत्वात् । नच पर्याप्तः संसर्गत्वेऽपि तदोषतादवस्थ्यम् । घटाकाशादौ द्वित्वादेः पर्याप्तिसत्त्वे प्रत्येकमाकाशादौ तत्पर्याप्तिर्नास्तीति वक्तुमशक्यत्वात् । प्रत्येकस्योभयानतिरिक्तत्वादिति' वाच्यम् । उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव' 'पर्याप्तिसम्बन्धेनापि विशेषणत्वं न तु समवायादिनैवेत्यन्वयः । तेन समवायावच्छिन्सपर्याप्तिसम्बन्धेनान्वय इत्यर्थः फलितः। अन्यथा रूपवानाकाश इत्यादावपि पर्याप्तिसम्बन्धेनान्वयबोधापत्तिः स्यादिति विवेकः । २ उभयानतिरिक्तत्वादिति । उभयमनतिरिक्तं यस्मादिति व्युत्पत्तिः । उभयन्न तु प्रत्येकान्निं किन्तु तत्स्वरूपमित्यर्थः । अन्यथा प्रत्येकमुभयानतिरिक्तत्वप्रतिपादनं सर्वतो विरुद्धमेव प्रतीयेत । ननूभयस्य प्रत्येकादभिन्नत्वात् प्रत्येकवृत्तिधर्मवद्भवतूभयं प्रत्येकन्तूभयस्मादभिन्नत्वात् + कथं समुदायवृत्तिधर्मवानवयवो भविष्यतीति चेत् सत्यम् । यद्वृत्तिभेदप्रतियोगितावच्छेदकधर्मशून्यो यश्च भवति स तद्वृत्तिधर्मवान् भवतीति नियमात् उभयस्मिन् प्रत्येक भेदास्वीकारात् तद्वृत्तिभेदप्रतियोगितावच्छेदकधर्मशून्यत्वात् प्रत्येकं समुदायवृत्तिधर्मवत्वात् समुदायवृत्तिपर्याप्तेरवयवेऽपि निर्बाध एवेति भाव । ३ समवायस्पैक्ट ादुद्देश्यतावच्छेदकव्याप्यत्वस्य तत्र बाधादाह-पर्याप्तेरेवेति ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy