________________
१५४ व्युत्पत्तिवादः
[ कारके पदस्यैकत्वादिविशिष्टघटादौ लक्षणाग्रहदशायां सर्वमत एव तज्जन्यविशिष्टविषयकोपस्थित्या विशिष्टविषयकशाब्दधीज ननात्तथाविधोपस्थितिहेतुतायाः सर्वानुमतत्वात् । पदान्तरासमभिव्याहृताद्घट इत्यादिपदादेकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव। तद्विपयकस्मरणस्य तत्रोपगमात् । तथाचोक्तं सर्वं हि वाक्यं क्रियया परिसमाप्यते इत्यपि निस्स्तम् । यादृशपदानां लक्षण्या एकत्वादिविशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्यविशिष्टोपस्थितीनां शाब्दधीहेतुताकल्पनमपेक्ष्य विभक्तिजन्यसंख्योपस्थितीनामल्पानां तत्कल्पने लाघवात् ।
इदं पुनरिहविधेयम् । विभक्तेः संख्याबोधकत्वे समानविषयकानुमित्यादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिकजन्या घटाद्युपस्थितियां च विभक्तिजन्या संख्योपस्थिति: प्रवेश्या तयोश्च मिथो विशेष्यविशेषणभावे विनिगमनाविरहात्प्रतिबन्धकताबाहुल्यम् । प्रकृतेर्विशिष्टलाक्षणिकत्वे तु तदुभयग्थलीयविशिष्टविषयकोपस्थितिरेकैव सामग्यमन्तर्भवति इति लाघवम् । न च विशिष्टविषयकोपस्थितेरपि एकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिविषयता (प्रकारता) शालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् । भवन्मते १ योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावषट्कम् । मन्मते तत्र योग्यताज्ञाने विशिष्टविषयकोपस्थिते: प्रत्येकं दर्शितोभयरूपेण वैशिष्ट्यं निवेश्य तदुभयं प्रत्येक ताशरूपद्वयावच्छिन्नायामुपस्थितौ योग्यताज्ञानम्य वैशिष्ट्यं निवेश्य द्वयमिति 2 बच्चतुष्टयमात्रमितिरीत्याऽस्माकमल्पतरतत्कल्पने महल्लाघवम् । तारसरीत्यैव च प्रणमतीत्यादौ प्रकर्षविशिष्टनतिर्कीतूनामेवार्थः । प्रादयो द्योतका एव न तु प्रकर्षादिवाचका