________________
च विधेयांशेऽधिकावगाहनान्नास्त्येवानुपपत्तिः । धृतादेश्चाश्रयानवच्छिन्नधात्वर्थतावच्छेदकतावक्रियारूपफलाश्रयत्वात् कर्मत्वो"पपत्तिः । यजु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रह विशेष्यांशे साक्षात्प्रकारत्वं तच्च क्रियायामेव न संयोगांशेऽपी ते नाग्नेर्जुहोति कर्मतापत्तिरिति । तदसत् । अजां ग्रामं नयती यादौ संयोगावच्छिन्नक्रियानुकूलव्यापारादिरूपे धात्वर्थे संयं गादेः साक्षादप्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्त्या नीवहादेर्द्विकर्मकत्वव्याघातात् । अव तत्र ग्रामादेः प्रधानकर्मत्वं नास्त्येवापि तु गौणकर्मत्वमेव । अत एव तादृशकर्मत्वमाख्यातेन नाभिधीयते "प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणामि"त्यनुशास‘नादिति । अजां ग्रामो नीयते इत्यादिको न प्रयोग इति चेत्तर्हि तत्र ग्रामादेरिवानापि धात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन गौणकर्मत्वापत्त्या वह्निं घृतं जुहोतीति प्रयोगापत्तिर्दुारैवेति। 2 अस्मन्मते. चाश्रयानवच्छिन्नसंयोगविषयता गालिधातुजन्योपस्थितिघटितसामग्ऱ्या एव संयोगे द्वित'यार्थान्वयबोधप्रयोजकतया नैतादृशप्रयोगापत्तिरिति । यन्तु अधःसंयोगावच्छिन्नस्पन्दो न पतत्यर्थः, अपि तु गुरुत्वजन्यतावच्छेदकजातिविशेपावच्छिन्न एवात एव फलावच्छिन्नव्यापाराबोधकत्यान्न सकर्मकत्वमिति-तन्न । फलस्य धात्वर्थाघटकत्व स्पन्द एव सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलाद्यत्तितया भूतले पततीति प्रयोगानुपपत्तिः । पर्णादिगतस्पन्दस्य परम्परया भूतलादिवृत्तित्वमिति चेत्तर्हि वृक्षात्पततीतिवत् वृक्षे पत तीत्यपि स्यात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेऽपि अा व्युत्पत्तिवैचिज्यादधःसंयोगरूपधात्वर्थतावच्छेदक एव तदन्वयबाध इत्यदोषः ।
अन्ये तु भम्यादेः कर्मत्वविवक्षायां भूमि पतर्त ति प्रयोग इष्ट
पता
"
3111धिोive