________________
एप । अत एव द्वतीयाश्रितेत्यादिसूत्रेण नरकं पतित 'इत्यादिस्थले द्वितीयासमासविधानमुपपद्यते । धात्वर्थतावच्छेदकतावच्छेदके फले द्वितीयाथान्धय एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा अग्निं जुहोतीतिप्रयोगवारणाय कल्प्यत इत्याहुः । __तदपि न शोभनम् । तथा सति भूम्यादिपदोत्तरं कदा चित्सप्तमी कदा चिद्वितीयेत्यत्र नियामकाभावग्रसङ्गात् । व्यापारांशे आधेयत्वविवक्षायां सप्तमी फलांशे तद्विवक्षायां द्वितीयेत्यस्योक्तयुक्तया फलांश एव सप्तम्यान्वयस्यावश्यं स्वीकरणीयतया वक्तुमशस्यत्वादिति ब्राह्मणाय धनं ददातीत्यादौ स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छा धात्वर्थः । तादृशस्वत्वरूपधात्वर्थतावच्छेद कफल एव द्वितीयार्थान्वयः । - उपेक्षायामतिप्रसङ्गवारणाय परस्वत्वनिवेशः। दानं च न संप्रदानस्वत्वजनकमपि तु तत्स्वीकार एवेति मते तु स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारिके छैव ददात्यर्थः। तत्र स्वस्वत्वध्वंसरूपफलाश्रयत्वाद्धनस्य कर्मत । धर्म प्रतिगृह्णातीत्यादौ स्वस्वत्वजनकेच्छारूपः खीकारविशेषो धात्वर्थः। स्वस्वत्वरूपफले च द्वितीयार्थाधेयत्वान्वयः। तदुलं...मचतीत्यादौ रूपादिपरावृत्तिजनकतेजःसंयोगो धात्वर्थः। रूपा देपरावृत्तिरूपफले च तण्डुलादिवृत्तित्वान्वयः । 3 श्रोदनं पचतीत्यादौ ओदनादिपदस्य तनिष्पादकतण्डुलादौ लक्षणा। अवयचिनि' पाकानभ्युपगमे च तण्डुलं पचतीत्यादौ तण्डु
'नरकं पतित इत्यादि । स्वमते तु नरकपतित इति सप्तमीसमासेन साधनीयं द्वितीयाघटितस्त्वसाधुरेव । अकर्मकधातुरित्यादिना द्वितीयायां मासं पतितो मासपतित इत्यादौ सूत्रावकाशोऽवगन्तव्यः ।
'अवयिविनीति । पीलुपाकवादिनो वैशेषिकाः पिण्डपाक (पिठरयाक