________________
१६६ व्युत्पत्तिवादः
[ कारके लादिपदस्य तदारम्भकपरमाणुषु लक्षणा। अोदनं भुङ्के इत्यादौ गलाधोनयनं धात्वर्थः । स च गलाधःसंयोगावच्छिन्नक्रियानुकूलव्यापारः। तादृशक्रियारूपफल एव ओदनादिवृत्तित्वान्वयः । उक्तयुक्तया' गलाधोदेशस्य न कर्मत्वम् । एवमन्यसकर्मकधातूनामध्यर्थाः स्वयमूह्याः। ___गां योग्धि पय इत्यादौ द्विकर्मकधातुसमभिव्याहृतगवादिपदोत्तरद्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं बोधयति । कारकाधिकारीयेणाकथितं चेति सूत्रेणापादानत्वादिभिअधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्मसंज्ञाभिधानात् । गवां पयो दोग्धीत्यादौ धातुप्रतिपाद्यान्वयिगवादिसंबन्धो न विवक्षितः अपि तु क्षीराद्यन्वयी स इति कर्मत्वाविवक्षया द्वितीयानवकाश:, किन्तु शैषिकी षष्ठ्येवेति। अत्र धातुप्रतिपाद्यत्वं तदर्थतावच्छेदककोटिप्रविष्टसाधारणम् । गां दोग्धीत्यादौ धात्वर्थतावच्छेदककोटिप्रविष्ट एव द्वितीयार्थान्वयात् । तथा हि तरणानुकूलव्यापारो दुहेरर्थः। द्वितीयार्थश्च जनकत्वसंबन्धेन क्षरणान्वयी विभागः। विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः। एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीरान्वितद्वितीयार्थवृत्त्यन्वय इति गोनिष्ठविभागानुकूलपयोनिष्टक्षरणानुकूलव्यापारकर्ता मैत्र इति गां पयो दोग्धि मैत्र इति वाक्याधीनो बोधः ।
इत्यप्युच्यते) वादिनो नैयायिकाः। पीलुः परमाणुः वैशेषिकमतमनुश्रित्योच्यते-अवयिविन्यादि ।
'उक्तयुक्त्येति । आश्रयानवच्छिन्नधात्वर्थतावच्छेदकताशालिफलाश्रयत्वस्यैव कर्मत्वनियामकत्वादिति भावः ।
धन्तिरावच्छिन्नस्येति । धर्मान्तराश्रयस्येत्यर्थः ।