SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] . जयाऽलङ्कृतः २३६ वस्तुतस्तु-निर्वय॑कर्मासमभिव्याहारस्थले संयोगं पचतीति प्रयोगवारणाय संयोगनाशद्वारा नाशकत्वमेव द्वितीयार्थो वक्तव्य इति कृतं प्रयोज्यप्रयोजकमावबोधेन । तण्डुलमोदनं करोति, काष्ठं भस्म करोति, दुग्धं दधि करोतीत्यादावपि प्रकृतिकर्मोत्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते विकृतिकर्मोत्तरद्वितीयया च विषयताविशेष उत्पादकत्वं वा मिलितं वा कृतौ बोध्यते। काशान् कटं करोति कुसुमानि मौक्तिकानि वा स्रजं करोतीत्यादौ काशादिपदोत्तरद्वितीयांकृतौ विषयता विशेषमेव बोधयति। काशाद्युच्छेदकतायास्तत्र वाधात् । कटमित्यादौ द्वितीयार्थः पूर्ववत् । स्रगादिपदार्थविन्यासविशेषविशिष्टकुसुमादेर्न कुसुमाग्रुपादानककृतिविषयता अपि तु विन्यासादिरूपविशेषणस्यैव तस्यैव कृत्यधीनोत्पत्तिरिति सजमित्यादिद्वितीयान्तस्य विशिष्टसत्त्वनिर्वाहकत्वमर्थः। विशेषणोत्पादकस्यापि खरूपसंवन्धविशेषरूपं विशिष्ट सत्त्वनिर्वाहकत्वमक्षतमेव । अग्निः श्यामं रक्तं करोतीत्यादावचेतनकर्तकव्यापारबोधकतया तत्समभिव्याहृतश्यामादिपदोत्तरद्वितीयाया अपि नोपादानताख्यविलक्षणविषयतार्थकत्वसम्भवः अपि तु तादृशद्वितीयान्तेन श्यामरूपादिविशिष्टासत्त्वनिर्वाहकतारूपं विशिष्टोच्छेदकत्वं तादृशव्यापारे प्रत्याय्यते । घटं रक्तं करोतीत्यादावपि घटादिपदस्यारक्तत्वविशिष्टघटादिलाक्षणिकतया विशिष्टघटाद्यसत्त्वनिर्वाहकत्वं प्रतीयते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यते। अतः काष्ठानि भस्मराशिः क्रियन्ते इत्यादावाख्यातार्थ निर्वय॑कर्मेति । तण्डुलम्पचतीत्यादौ प्रयोज्यस्याभावेन नाशप्रयोज्यत्वस्यापि तादृशस्थले भानासम्भवेन तद्वत्संयोगं पचतीत्याद्यापत्तिरिति भावः। २ विषयतेति । उपादानताख्येति यावत् ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy