________________
२४० व्युत्पत्तिवादः .
[ कारके विशेष्यकाष्ठादिवाचकपदसमानवचनत्वमाख्यातस्य, न तुनिवर्त्यभस्मादिरूपविकारवाचकपदसमानवचनता । ____ अथैवं निवर्त्यकर्मवाचकपदात्प्रथमा न स्यादपि तु द्वितीयैव । तत्कर्मताया लकारेणानभिधानात् । यत्तु उभयकर्मत्वमेव लकारेणाभिधीयते, प्रधानाप्रधानकर्मसमभिव्याहृतनीवहादिदुहादिरूपद्विकर्मकोत्तरकर्मप्रत्ययस्यैव कर्मद्वयानभिधायकत्वनियमात्, प्रकृते च कर्मद्वयस्यैव तुल्यत्वात् , विकृतेराख्यातार्थविशेष्यत्वेऽपि आख्यातस्य तत्समानवचनत्वनियमः, “गृह्णाति वाचकः संख्यां प्रकृतेविकृतेन ही” त्यनुशासनसिद्धप्रकृतिविकृतिसमभिव्याहृतलकारीयविकारसंख्याबोधकत्वाभावव्युत्पत्तिनिर्वाह्य इत्युक्तस्थले न क्रियापदस्यैकवचनान्तता, तदर्थान्वितसङ्ख्याबोधकस्यैवाख्यातस्य तत्पदसमानवचनत्वनियमात्, न तु तद्विशेषणक स्वार्थकर्मत्वादिबोधजनकाख्यातमात्रस्येति–तदसत् । विकारविकारिणोर्द्वयोराख्यातार्थविशेष्यत्वे वाक्यभेदापत्तेः । घटपटौ स्तः, घटपटौ दृश्येत इत्यादौ विशेष्यभेदेऽपि विशेष्यतावच्छेदकद्वित्वादेरेकधा भानान वाक्यभेदः । अत्र च न तादृशविशेष्यतावच्छेदकभानमस्ति येन तत्रैवात्राप्येकवाक्यतानिर्वाहः। न चागत्येष्यत एवात्र वाक्यभेद इति वाच्यम् । तथा सत्येकवाक्यार्थपरस्य काष्ठं क्रियते भस्म क्रियते इत्येतादृशप्रयोगस्यापत्तेः । काष्ठं भस्म क्रियत इति वाक्यजबोधस्य काष्ठविकृतिर्भस्मान्यविकृतिर्वेति संशयनिवर्तकत्वानुपपत्तेश्च । काष्ठभस्मनोः प्रकृतिविकारभावाभानात् ।
अस्मन्मते च काष्ठोच्छेदकत्वरूपकाष्ठकर्मकत्वभस्मनिवर्त्त
'वाचकरिति । आख्यातरिति । २ तद्विशेष्यक' इति पाठो हस्तलिखितपुस्तके ।